________________
४६०
काव्यमाला।
प्रातः पुत्रवियोगेन तनुमानकदुन्दुभिः । तत्याज देवकीमुख्यैरनुयातः प्रियाजनैः ॥ ३८ ॥ संस्कृत्य सात्वतादीनां तनुं कृत्वा जलक्रियाम् । पार्था वजं हरेः पौत्रं स्त्रीश्चादाय ततोऽचलत् ॥ ३९ ॥ क्रन्दती तत्क्षणत्रस्तोड्डीयमानखगस्वनैः । तदा स्वामिशुचेवाब्धौ ममज्ज नगरी हरेः ॥ ४० ॥ इन्द्रप्रस्थं वजन्प्राप्तो विकटामटवीं नरः । सालंकारवधूवारलुब्धै रुद्धो वनेचरैः ॥ ४१ ॥ तानुग्रलगुडाटोपान्गोपान्कोपाद्विलोकयन् । बलाधिक्यमिवाधिज्यं कृच्छ्राचक्रेऽर्जुनो धनुः ॥ ४२ ॥ तस्य नष्टास्तदा पृष्ठादधमर्णा इवेषवः। आकृष्टापि नवोदेव न ज्या सन्मुखमाययौ ॥ ४३ ॥ सखीशिक्षादयः क्षिप्रं बालायाः प्रियसंगमे । अथ मन्त्रोक्तयस्तस्य रणेऽस्मिन्विस्मृतिं ययुः ॥ ४४ ॥ किं स्वप्नोऽयं किमन्योऽहमिति भूरिवितर्किणः । पार्थस्य पश्यतः कामं कामिनीर्दस्यवोऽहरन् ॥ ४५ ॥ न शेकिरे ग्रहीतुं तैर्दृश्यभासो वरस्त्रियः । अदृष्टरक्षिता भाग्यहीनैरौषधयो यथा ॥ ४६ ॥ प्रवेष्टुं वर्त्म देहीति पृथिवीं प्रणमन्निव । न्यग्मुखोऽजनि मन्वानो जीवितं फल्गु फाल्गुनः ॥ ४७ ॥ गतेषु हृतदारेषु तदा दुःखाजगुर्जनाः । अहो विश्वजयी जिग्ये गोपैधिग्विधिवल्गितम् ॥ १८ ॥ इत्युक्तीः कर्णयन्नैन्द्रिरिन्द्रप्रस्थं पुरं गतः ।
प्रधानवृष्णिवामाक्षीवज्रदारुकसंयुतः ॥ ४९ ॥ १. 'कृतजलक्रियम्' ख. २. इदं पद्यं ख-ग-पुस्तकयो स्ति. ३. 'तेषु दुःखाजना जगुः' ख-ग. ४. 'संगतः' ख-ग.