________________
काव्यमाला।
प्रास्थानिकपर्व। श्रुत्वाथै वृष्णिनिधनं धनंजयमुखान्नृपः । ताहकालबलत्रस्तः समस्तत्यागधीरभूत् ।। १ ॥ धृतराष्ट्रभुवां राष्ट्रमनुयुज्य युयुत्सुना । परिक्षिते क्षितिं स्वीयां ददौ सोदरसंमतः ॥ २ ॥ उदारपुण्यप्रकृति द्विजप्रकृतिसंमताम् । सुभद्रामिह भूपालस्तत्पालनकृतेऽदिशत् ॥ ३ ॥ श्राद्धमाधाय बन्धुभ्यो विधायेष्टिं च नैष्टिकीम् । उत्ससर्ज जले सोऽनीरागानिव शमामृते ॥ ४ ॥ पौरानाश्वास्य विधुरान्धरामामय सानुजः । उर्वीशः सर्वसंन्यासी याज्ञसेनीसखोऽचलत् ॥ ५ ॥ एत्योत्सर्गरुषवाथ पार्थान्प्रार्थ्य हुताशनः । निन्द्यः सुहृदिवादत्त प्राग्दत्तान्कार्मुकेषुधीन् ॥ ६ ॥ परित्यक्तपुरानेतानेकः श्वा वारितोऽपि षट् । तदा बुद्धीन्द्रियप्राणानिव कर्मगणोऽन्वगात् ॥ ७ ॥ अथामी दिशमासेदुः शनैर्दक्षिणपश्चिमाम् । मग्नां द्वारवतीं वीक्ष्य न च ते योगिनोऽमुहन् ॥ ८ ॥ क्षोणिं प्रदक्षिणीकृत्य ततः स्फीतानुगद्युतिः । राजा ययौ दिशं दीप्यमानो भानुरिवोत्तराम् ॥ ९ ॥ ततो गत्या च कीर्त्या च तुहिनाचललचिनः । वालुकार्णवमाप्यतेऽपश्यन्मेरुं सनन्दनम् ॥ १० ॥ निराश्रये निरालम्बे तत्राथ पथि पार्षती । पतिता चित्तमप्यौज्झत्कृत्ये मूढस्य धीरिव ॥ ११ ॥ सर्वतो निर्मला राजस्तपोयोगे स्थिताद्भुते।। कुतः कुमुद्वतीवाह्रि दीर्घ स्वपिति पार्षती ॥ १२ ॥
१. 'च' क.