SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ १४अश्वमेधपर्व-१सर्गः) बालभारतम् । शप्तस्तत्पितृभिः कोपः खोपयोगि पयो लिहन् । अदभ्रविभ्रमो भूमौ भवान्बभ्रु भवेदिति ॥ ८८ ॥ यदि यौधिष्ठिरे यज्ञे करिष्यसि विमाननाम् । तदा विमुच्यसे सत्यं दत्तस्तैरित्यनुग्रहः ॥ ८९ ॥ अयं स कोपनकुलः कुर्वनिह विमाननाम् । राज्ञो यज्ञोद्भवां मानमूर्छा लुत्वा व्यमुञ्चत ॥ ९० ॥ बभ्रोरित्यद्भुतकथाश्रवणप्रवणाशयाः । भूदेवनरदेवाद्याः सर्वे विस्मयमाश्रयन् ॥ ९१ ॥ इति यतिशतहर्षस्फायमानप्रहर्षः __ प्रततहुतिविधानः प्रौढसत्पात्रदानः । दलितदुरितभारः सोऽभवत्पुण्यसारः कृतकुगतिनिषेधस्तस्य राज्ञोऽश्वमेधः ॥ ९२ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तद्विद्याहृदि बालभारतमहाकाव्येऽश्वमेधोभवं पर्व प्रीतिपदं चतुर्दशमिदं संप्राप संपूर्णताम् ॥ ९३ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये चतुर्दशमाश्वमेधिकं पर्व समाप्तम् । १. 'श्वोप' ख. २. 'मान्यः' ख. ३. 'मुक्त्वा व्यमुच्यत' ख. ४. 'कृत' ख. ५. 'कृतिजगति' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy