SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इत्थं मनोरथैस्तेषां न शान्तास्य क्षुधा तदा । ते सर्वे स्वस्वभागान्नं तदा तस्मै ददुर्मुदा ॥ ७६ ॥ तेषां सुकृतिनामन्नस्तृप्तोऽयमतिथिगौ । धर्मः सत्त्वमहत्त्वाद्वः प्रीतोऽहं सिद्धिमाप्नुत ॥ ७७ ॥ इत्युक्त्वान्तर्हिते धर्मे दुष्कर्मेन्धनवह्नयः । जग्मुस्तिग्मांशुमानैस्ते विमानैर्देहिनो दिवम् ।। ७८ ॥ जगाम तामहं सक्तुगन्धसंबन्धतो धराम् । विप्रोच्छिष्टपयः स्पृष्टं पार्श्व हैममभून्मम ॥ ७९ ॥ द्वितीयपार्श्वहेमत्वचिन्तया कुत्र कुत्र न । द्विजभोज्यभुवि भ्रान्तः संप्राप्तोऽत्रापि संप्रति ॥ ८० ॥ क्वापि प्रापि पुनस्तादृक्प्रीत्यै नायं प्रभाकणः । सक्तुप्रस्थस्य साम्यं तत्किं कामतु क्रतुः शतम् ।। ८१ ॥ इत्युदित्वा गते तत्र चित्रकान्तावदर्शनम् । भूकान्ते संभ्रमभ्रान्ते वाचं व्यासः समासदत् ॥ ८२ ॥ शुद्धो भावः क्वचिल्लक्ष्मीः क्वचिन्नोभावपि क्वचित् । सर्वेभ्यः सर्वशुद्धोऽयं क्रतुभ्योऽभ्यधिकः क्रतुः ॥ ८३ ॥ सुरासुरमखेभ्योऽपि शुद्धे यौधिष्ठिरे ऋतौ । नकुलोऽस्मिन्ननार्यत्वमनार्यः कार्यतो जगौ ॥ ८४ ॥ बोधं क्रोधः पुरा श्राद्धे जमदग्निमुनेः शमम् । पिठरस्थं पयः पित्र्यं श्वा भूत्वा जिह्वयालिहत् ॥ ८५ ॥ धर्मः शुनामयं नाम दोषोऽयमिह रक्षितुः । इत्यसौ न शशापैनं सारमेयममेयहक् ॥ ८६ ॥ अशक्तस्तेन पापोऽयं कम्पमापोग्रपापकृत् । दुरन्तस्यापि पापस्य मुनिशापो हि शोधनः ॥ ८७ ॥ १. 'धर्मसिद्धिर्म' ख. २. 'किमयं क्रमतु क्रमम्' ख. ३. 'नोभावुभावपि' ख. ४. 'समम्' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy