SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । अथार्जुनो ययौ तेजःशुष्यद्वैरियशोजलः । मणीपूरपुरीमर्कः पाशपाणिपुरीमिव ॥ २४ ॥ बलेन बभ्रुवबभ्रुवाहनस्तत्पुरीपतिः । सत्पुत्रः पितृभक्त्याग्रमाजगाम ननाम च ॥ २५ ॥ सुतस्य तस्य तेजांसि द्रष्टुमुत्कण्ठितस्ततः । वाचमूचे चमूचेतश्चमत्कारकरी नरः ॥ २६ ॥ न मे विमुक्तसंग्रामस्त्वत्प्रणामः प्रियंकरः । शूद्राणां वयसा ज्यैष्ठ्यं क्षत्राणामूष्मणा पुनः ॥ २७ ॥ पार्थप्रिया तदोलूपी भूपीठभेदयो(?)त्थिता । महाभुजं भुजंगीय(म)मब्रवीभ्रुवाहनम् ॥ २८ ॥ अयं वत्स भवत्सत्वविलोकनकुतूहली । त्वत्पिता तापितारातिरातिथ्यं मृधमीहते ॥ २९ ॥ निशम्येदं तदारुह्य मुह्यत्कृत्यपथो रैथम् । चापमारोपयत्साकं स्वभ्रुवा बभ्रुवाहनः ॥ ३० ॥ पितृपुत्रावथो विश्वं खं दर्शयितुमक्षमौ । हियेव चक्रतुः काण्डच्छन्नार्ककिरणं रणम् ॥ ३१ ॥ गत्वा दिवं भुवं स्पृष्ट्वा पातालस्य तेलेऽविशन् । एतयोर्यशसां स्थानं दर्शयन्त इवेषवः ॥ ३२ ॥ अथार्जुनिः पृथासूनुहँतसारथितो रथात् । उत्ततार गिरेः शृङ्गादिव क्रुद्धो मृगाधिपः ॥ ३३ ॥ अपतन्मणिपूरेन्द्रमार्गणैरैन्द्रिमार्गणाः। छिन्नाः शिखित्विषो धाराधरधाराभरैरिव ॥ ३४ ॥ खनन्दनमृधास्कन्दसानन्दहृदयस्तदा । पृथाभूः प्रथयामास शिथिलं शिथिलं शरान् ॥ ३५ ॥ बभ्रुवाहनबाणेन गाढं हृदि हतोऽर्जुनः । आकुलः कुलिशाग्रेण कुलशैल इवापतत् ॥ ३६ ॥ १. 'तत्पुत्रः' ख. २. 'हदयो' ख; मिदयो' ख-शोधितः. ३. 'पथे' क. ४. 'विश्वैः' क; 'विश्वे' ख. ५. 'तलं' ख. ६. 'हृत' क. ७. 'धराधारा' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy