SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ .... ४४७ १४अश्वमेधपर्व-सर्गः] बालभारतम् । जगत्रयजयोन्मुद्रे रुद्रेणाप्यजिते युधि । शब्दोऽभूदिवि हाहेति हेतिमिन्नेऽर्जुने तदा ॥ ३७ ॥ पतितं पितरं भानुमिवालोक्य विमूर्च्छितः । सूर्यकान्तिशिलोत्थोग्निरिव चित्राङ्गदाङ्गजः ॥ ३८ ॥ तत्र चित्राङ्गदागत्य दृष्ट्वा सुतहतं पतिम् । विललापतमां तापतमांस्येकत्र बिभ्रती ॥ ३९ ॥ हा चित्तेश हहा कान्त हहहा शान्तमानसः । किं धाम्नि मम जायायाः समायातस्य तेऽभवत् ॥ ४० ॥ चिरागतोऽप्यनालप्य स्वामिन्दास्योचितं जनम् । आतिथ्येन तनूजस्य सुखितः स्वपिषीति किम् ॥ ४१ ॥ इत्युच्चैः प्रलपन्ती सा रोदयन्ती खगानपि । ---- सपनीमुरगी गाढमालिङ्गय क्ष्मातलेऽलुठत् ॥ ४२ ॥ अथ संज्ञां ममासाद्य स्वं निन्दन्विलपन्मुहुः । मृत्यौ दधे धियं दुःखवाहनो बभ्रुवाहनः ॥ ४३ ॥ सत्या हि सुतया ध्यातस्तदायातस्तलाद्भुवः । मोगिलोकशिरोरत्नमिव संजीवनो मणिः ॥ ४४ ॥ यदैव सै तया दत्तो हृदये हृदयेशितुः । तदैव दैवमाक्रम्य तस्य स्वात्मानमानयत् ॥ ४५ ॥ हर्षाश्रुधौतशोकाश्रुतापदुःखितचक्षुषम् । सुप्तोत्थित इवापश्यदथ पार्थः परिच्छदम् ॥ ४६ ॥ अथोचे वाक्सुधाकूपी तमुलूपी कृताञ्जलिः । नाथ धन्योऽसि धन्यानामेव पुत्रात्पराजयः ॥ ४७ ॥ किंतु जन्ने यदा भीष्मः शप्तोऽसि वसुभिस्तदा । वध्योऽस्त्वसौ सुतस्येति कोऽन्यथा त्वजयी भवेत् ॥ ४८ ॥ मत्पिता मत्कृपाण ते भक्त्याभ्यर्थितस्तदा । त्वत्कालरजनिव्योममणिं प्राहुरमुं मणिम् ॥ ४९॥ १. 'लाप्य' क. २. 'नभो' क. ३. 'सुतया' क. - -
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy