________________
१४अश्वमेधपर्व-१सर्गः] बालभारतम् ।
४४५ द्रौण्यस्वदग्धं कालेऽस्मिनसूत सुतमुत्तरा । प्रतानिनीव दुर्वातनलका निष्कलं फलम् ॥ १२॥ ततः कुन्तीसुभद्रादि क्रन्दाहृदयो हरिः । तं दृष्टयाजीवयदृष्टया सद्यो भेकमिवाम्बुदः ॥ १३ ॥ यतो जातः परिक्षीणो कुरूणामयमन्वये ।। परीक्षिदिति नामानमेनमूचे तदच्युतः ॥ १४ ॥ अथ व्यासाज्ञया राज्ञा यज्ञाय बहुकौतुकः । संभारस्फाररत्नाढ्यः प्रावलंत महाधनः ॥ १५ ॥ कृष्णसारमथोत्सृज्य हैरिमर्जुनरक्षितम् । विधिना चैत्रशुक्लान्ते दीक्षितः क्षितिपोऽभवत् ॥ १६ ॥ कोऽपि हन्त न हन्तव्य इति राजाज्ञयार्जुनः । क्षत्राणि नमयन्नेव तृणानीव समीरणः ॥ १७ ॥ प्राग्ज्योतिषपति जित्वा वज्रदत्तं त्रिमिर्दिनैः । सिन्धुदेशं ययौ युद्धचतुरस्तुरगानुगः ॥ १८ ॥ (युग्मम्) अथाङ्के बिभ्रती बालं मरालमिव बाष्पदृक् । अवश्यायलवाकीर्णसरोजेव सरोजिनी ॥ १९ ॥ मृधोग्रसैन्धवक्रोषधूमध्वजपयोधरम् । एत्यार्जुनं दयालीनं दीनाभ्यधित दुःशला ॥ २० ॥ (युग्मम्) भ्रातर्भगाभिधानेन भवाभोग इवाङ्गिनाम् । अभावमसृजत्पुत्रस्त्वन्नाम्नैव श्रुतेन मे ॥ २१ ॥ पौत्रो जयद्रथस्यायं शिशुः स्वस्ने(स्त्री)यजस्तव । गुरुभवान्भवत्वस्य राज्यश्रीपाणिपीडने ॥ २२ ॥ खस्ने(स्त्री)यस्यैवमश्रेयः श्रुत्वा निन्दनिजोद्यमम् ।
बालं भूपालयनैन्द्रिर्बान्धवीं तामबोधयत् ॥ २३ ॥ १. 'झलका' ख. 'जलोल्का' इति ख-पुस्तके टिप्पणीगतः. २. 'परिक्षि' क. ३. 'हरिरर्जु क. ४. 'अथाणे ख. ५. 'भी' क. ६. 'मसृजत् क. ७. 'सुतः' ख. ८. 'अमोघम' क.