SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४४४ काव्यमाला। अश्वमेधपर्व। भवाकूपारपारद्रुः पाराशर्यमुनिर्ददे । नैति यद्भारतीगुच्छस्तुच्छभाग्यस्य भोग्यताम् ॥ १ ॥ स्रवन्तीसूनुशोकाब्धौ क्ष्मापतिः पतितस्ततः । कौरवोत्तंसकंसारिव्यासैराकृष्यत द्रुतम् ॥ २ ॥ तदा तदुक्तिभिः पापशाखिप्लोषिशिखित्विषे । अधत्त हयमेधाय मेधामयमिलाधवः ॥ ३ ॥ विग्रहग्रस्तनिःशेषलक्ष्मीरेष मैखोदये। दुःखं दधौ गुणाधाने धिया हीन इवाधिकम् ॥ ४ ॥ मखशेषो मरुत्तस्य राज्ञः कनकसंचयः । अङ्के हिमाचलस्यास्ति हेमाचलकुमारवत् ॥ ६ ॥ तमाप्नुहि महीनाथ समाप्नुहि महामखम् । विधेहि विश्वमनृणं पिधेहि दुरितच्छटाः ॥ ६ ॥ इत्युक्त्वा नृपमामन्य वन्द्यमानो विमानिभिः । द्यां ययौ तडिदुल्लासः श्रीव्यासः शमिभिः समम् ॥ ७ ॥ (विशेषकम्) सभोद्यानविहारेऽथ तां गीतां पुनरैन्द्रिणा । पृष्टोऽनुगीतामाचष्ट कंसारिः सा पुनः क गीः॥ ८॥ ततः कृतमखारम्भसमागमनसंविदा । गत्वा मुरारिणाकारि द्वारिका हर्षकारिका ॥ ९॥ हिमाद्रितो महादेवसेवावल्लिफलान्यथ । आनिनाय महीजानि तानि हैमानि यज्ञधीः ॥ १० ॥ वसत्येव हरिदेवः सत्यसूनोः सदा हृदि । तदाशु तदभिप्रायं मत्वेवायं यदागतः ॥ ११ ॥ १. 'भवकूपार' क-ख. २. 'पारंगः' क. ३. 'महोदये' क. ४. 'विधेहि' क. ५. 'इत्युक्त्या ' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy