SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ १३ अनुशासनपर्व - १ सर्गः ] बालभारतम् । अनुशासनपर्व | प्रथमः सर्गः । पाराशरः पातु स मां तमालशितिद्युतिर्दैत्यभिदोऽवतारः । वाच्याय विश्वकहिताय देवी वागेव जिह्वाजनि यन्मुखाजे ॥ १ ॥ अथेदमाकर्ण्य धुनीतनूजाळूंजानिरुन्मुद्रितशोकमुद्रः । दीनाननश्रीरकृत प्रलापान्पापानुशङ्की सुकृतस्य सूनुः ॥ २ ॥ अहो जनैः साध्वपि यत्क्रियेत प्रियेतरं वक्ति तदप्यकर्म | राज्यं तु राज्ञां नरकान्तमेव मि तदर्थेऽपि तस्वार्थम् ॥ ३ ॥ अकर्षि कूचै नमतः सहर्षं बालेन ताम्बूलरसाय यस्य । मया हहा सोऽपि भवान्निजघ्ने पितामहः कामहताशयेन ॥ ४ ॥ द्विषद्भिदा दर्शन कौतुकाय येनास्त्रविद्यामहमापितो याम् । धिग्धिङ्मयाघाति तया स एव पितामहः कामहताशयेन ॥ ५ ॥ येनात्मनैवाभरणैर्विभूष्य सर्वाङ्गमुत्सङ्गमवापितोऽहम् । क्षिप्तः क्षितौ ही स मया शराङ्कः पितामहः कामहताशयेन ॥ ६ ॥ न मां विना यस्य रतिर्मया स सुरासुरश्रेणिभिरप्यजेयः । हा मर्म पृष्ट्वा निशि घातितोऽह्नि पितामहः कामहताशयेन ॥ ७ ॥ (कुलकम् ) ४३९ इति प्रलापातुरमतिभागी भागीरथीसूनुरधीशमुर्व्याः । भक्त्युज्ज्वलीभूतमनस्थमातृतरङ्गभैङ्गायितवागुवाच ॥ ८ ॥ मा वत्स दावच्छविना विनाशं नयख शोकेन विवेकवल्लीः | हन्ता हि न त्वं न मृतिर्न कालो वयं हतास्ते निजकर्मणैव ॥ ९ ॥ मृदार्द्धिपिण्डैरपि कामकृत्यक्षणक्षणान्यान्यशरीरिरूपैः । कर्माणि वालैकधराणि मुक्तश्रमं रमन्ते बत विश्वजीवैः ॥ १० ॥ सदा सदाचाररते निरस्त कर्मग्रहेऽनन्यसमे तु मर्त्ये । आयुः स्थिरं स्यादभियाति लक्ष्मीः कुलं कलाश्वोज्ज्वलतां भजन्ते ११ १. 'भूतानि' क. २. 'राज्ञां हि राज्यं' ख. ३. 'हित' क. ४. 'भङ्गीयित' क-ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy