________________
काव्यमाला।
तृष्णातिरस्करिण्यैव पिहितोऽस्ति सुखोदयः । यावत्युत्सार्यते सेयं तावानयमवेक्ष्यते ॥ १७५ ॥ आशासु दत्तक्सौख्यं पुरस्थमपि नेक्षते । यदा निवर्तते ताभ्यस्तदा पश्यति तज्जनः ॥ १७६ ॥ येषां न लब्धुमारम्भो न स्थम्भो लब्धवर्जने । जीवन्तोऽपि विमुक्तास्ते सुखे दुःखेऽपि हर्षिणः १७७ ॥ ते धन्याः कुलधर्मार्थानप्युल्लङ्घय स्थिता मतिः । येषां मोहतमश्छन्नपरमार्थप्रदीपिका ॥ १७८ ॥ आत्मा शुद्धोद्भुतज्ञानभग्नबन्धनसंशयः । सामरस्यं समायाति विष्णुना विश्वहेतुना ॥ १७९ । योगदीपदलन्मोहध्वान्तस्पष्टे न पश्यति ।
नयनेनान्तरेणान्तः परमं पुरुषं कृती ॥ १८० ॥ इति निखिलविशेषधर्मवेदी प्रचुरपुराणचरित्रचित्रिताभिः । अदिशदवनिवल्लभाय वाग्भिर्मधभुवि वीरवरः स मोक्षधर्मम् ॥१८१॥
(इति मोक्षधर्माः ।) भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। माधुर्याध्वनि बालभारतमहाकाव्येऽत्र शान्ति गतं
शान्तेः पर्व तदास्यतो जयमधुस्यन्दे मृदु द्वादशम् ॥१८२॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्र विरचिते श्रीबालभारते . महाकाव्ये वीराङ्के
शान्तिपर्वणि धर्मत्रयकीर्तनो नाम चत्वारिंशः सर्गः । एतस्मिन्नेकसर्गेण शान्तिपर्वण्यनुष्टुभाम् । शतमेकं युता षड्मिरशीतिरभवत्तथा ॥
समाप्तं चेदं शान्तिपर्व।