SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ११स्त्रीपर्व-१सर्गः) बालमारतम् । स्त्रीपर्व। प्रथमः सर्गः। छलयुद्धहृताहितो हरिस्तपसे मुक्तकलत्रपुत्रकः । अविशच्छुचि यन्मनस्तपोवनभृद्धयै स पराशरात्मनः ॥ १ ॥ स इतश्च जगाम संजयः कृतफूत्कारमहारवः सुरम् । हहहा प्रहताः स्म इत्यपि प्रलपन्भूपतिवेश्ममाविशत् ॥ २ ॥ अथ भानुमतीमुखस्नुषाविदुरादिखजनवजान्वितम् । दयितायुतमेत्य संजयो नृपति गद्गदया गिरा जगौ ॥ ३ ॥ अहमन्वहमेत्य विप्रियं प्रियवर्गव्ययमभ्यधां तव । अधुनाप्यहितं वदाम्यतः शृणु वज्रीकृतहृन्महीपते ॥ ४ ॥ द्रुपदात्मजपाण्डवात्मजवजयुक्तं गुरुजादिभिर्बलम् । हरिसात्यकिपाण्डवोज्झितं निशि हत्वाभिगतैर्निवेदितम् ॥ ५ ॥ अपमोहवशः स सौप्तिकं प्रियमाकर्ण्य लसन्मनाः प्रगे। तनयस्तव हर्षितो ययौ दिवमेकादशवाहिनीविभुः ॥ ६ ॥ (युग्मम् ) इति कोपनपद्मपन्नगीगरलोमिप्लवकल्पया गिरा। परिपेतुरुपेतमूर्छनाः क्षितिपीठे क्षितिवल्लभादयः ॥ ७ ॥ मुमुहुर्मुहुरुत्थिता मुहुर्मुहुरालप्य मिथोऽतिदैन्यतः । क नु यामि कथं भवामि किं करवाणीत्यरुदंस्तमाममी ॥ ८॥ प्रविकीर्णशिरोरुहां स्फुरत्परिकम्पां करुणप्रलापिनीम् । नवदउदृशं सभामिमामथ शोको रसवत्तयास्पृशत् ॥ ९॥ धृतराष्ट्रसभेयमाविला धरणिस्फालितमौलिजा सृनाः । करुणस्य विलासकारणं शुशुभे पल्लविनी वनीव सा ॥ १० ॥ विधिपर्यनुयोगहोक्तिहृत्तटघातादिकविक्रियोज्झिता । अयि विस्मृतरोदकारणा प्ररुरोदेव सभासु निर्भरम् ॥ ११ ॥ १. 'वृद्ध्यै' क. २. जन्मशब्दवदस्य वेश्मशब्दस्यापि भवेदकारान्तत्वम्. ३. 'सहसा ते क्षितिवल्लभादयः' ख. ४. 'विस्मित' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy