SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१० काव्यमाला | ऊचे सत्यवतीसूनुः सत्यमस्तु हरेर्वचः । द्रौणे यतस्त्वया क्रूरं कर्माशूरोचितं कृतम् ॥ १०३ ॥ इति शप्तो मणि द्रौणिर्दत्त्वा तेभ्यो वनं ययौ । तेऽप्यगुर्द्रौपदीं व्यासनारदाभ्यां युता द्रुतम् ॥ १०४ ॥ अथ रत्नं नभोरत्नसंपन्नं द्योतयन्पुरः । सामीरिराज्ञया राज्ञः कृष्णामभ्यधित स्मितः ॥ १०५ ॥ क्षत्रगत्या जितोऽस्त्रज्ञस्त्याजितोऽस्त्रशिरोमणिः । गुरोरङ्गज इत्यङ्ग न स्वर्ग गमितोऽद्य सः ॥ १०६ ॥ अथ मुदमुदयन्तीं द्रौपदीं स्माह मान्यो गुरुरिव गुरुसूनुर्युक्तमत्याजि जीवन् । मणिममुममराणां लोभकं शोभिताशं निजशिरसि रसायाश्चित्तनाथो निधत्ताम् ॥ १०७ ॥ कुनयकुरु कुटुम्बच्छेदनात्खेदनाशः समजनि मम जज्ञे द्रौणिमर्षाच्च हर्षः । अहमिति हरिमैत्र्यात्त्वत्प्रियत्वात्कृतार्थो जगति सुगतिभाजो नैव शोचामि बन्धून् ॥ १०८ ॥ ते पुत्रास्तव बन्धवस्तव च ते न द्रोणिना जघ्निरे तत्तुष्टेन हता हरेण महतामेषां न शोच्यं महः । इत्युक्ते मुरवैरिणा सुकृतभूपृष्टेन हृष्टि परां sit निजवर्गवीरवरलाज्ञानेन यज्ञाङ्गजा ॥ १०९ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोर ईन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती | वाणीवेश्मनि बालभारतमहाकाव्ये तदन्तर्हगु न्मेषप्रेषणभासि पर्व दशमं शान्ति ययौ सौप्तिकम् ॥ ११० ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के नवमसगदायुद्धशल्यपर्वदशमसौप्तिकपर्वकीर्तनो नामाष्टत्रिंशः सर्गः । अनयोरेकसर्गेण शल्यसौप्तिकपर्वणोः । एकेन कल्पितान्यास शतानि त्रीण्यनुष्टुभाम् ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy