________________
२२
काव्यमाला |
पिदधे हरिः करयुगेण मत्सरी श्रवणौ गुणस्तुतिषु यस्य सश्रियः । अपि गर्भविश्वनिनदं निशम्य तन्मयमेव नूनमयमाप कृष्णताम् ॥ ४९ ॥ चलयच्चमूचयरजोभिरुद्धतैर्द्युधुनीजलेऽप्यतुलपङ्कसंकटे ।
न बभूव शंभुविभुमूर्ध्नि शाश्वतः किमु पङ्कजप्रकरपूजनोत्सवः ॥ ५० ॥ से पुराणपुरुषपुराणवेदिनां वदनादिदं स्वपनवद्विदञ्जगत् । स्वपनेऽप्यनेक सुकृतै कृत्कृती न बभार जागरणनिद्रयोभिदाम् ॥ ११ ॥ अथ तत्र पत्रलतिकां मरुद्वधूकुचयोर्लिखत्यसुरराजमार्जिताम् । नृपतिः सुहोत्र इति गोत्रभृद्गजाश्रयिणीरिवाकृत दिशो यशोभरैः ॥ १२ ॥ समदीपि यः क्षितिधवः सुवर्णया प्रियेयाद्भुतद्भुतसुवर्णवर्णया | विकसत्कुशेशयमुखश्रियान्वहं विभया गभस्तिरिव लोकशोकभित् ॥ १३ ॥ अपि सिन्धुरोचितगुणोऽपि संत्यजन्कमलामपि स्फुटरथाङ्गवर्जितः । परिमुक्ततार्क्ष्यगमनोऽपि दूरतो युधि कृष्ण एव यदरिव्रजोऽभवत् ॥ १४ ॥ रिपुयोषिदाननविलोचनोच्छ्रसत्पवनाम्बुपूरमखधूमतेजसाम् ।
पटलेन मेघँकरणीदलेन यः सततं सुभिक्षमकरोत्किल क्षितौ ॥ १५ ॥ परितर्पयन्मखभुजो मखत्रजैर्यशसैव राहुमपि विप्रतारयन् । विततान यः किल विभावरीविभोर्निजपूर्वजस्य परिरक्षणोद्यमम् ॥ १६ ॥ अमुमज्जनालविवरालिसूक्ष्मतागलितेन नाभिपदतः प्रसारिणा । ऋतुपुरुषस्य परमात्मतेजसा ध्रुवमद्भुताद्भुतविधि विधिर्व्यधात् ॥ १७ ॥ यदधीतवान्गुणकदम्बमेष तद्गुणनेऽपि खेदमवहद्बहस्पतिः । प्रविभिद्य तद्गुणनमालिकामणीन्क्षिपति स्म तारकनिभान्नभोङ्गणे ॥ १८ ॥ अथ तत्र कल्पतरुपल्लवैः करं रमयत्यहो समगुणानुरागिभिः । अवनिर्दधेऽवनिधवेन हस्तिना नवमेन विष्टपधुरीणहस्तिनाम् ॥ १९ ॥ घनपत्रवल्लरिविशेषकाननप्रभया समग्रविषयाग्रिमश्रिया । प्रिययान्वहं करगृहीतया यशोधरया रराज धरया च यः प्रभुः ॥ ६० ॥
१. क-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति २. 'विकसत्कुशेशयमुखश्रियान्वहम् । विभया गभस्तिरिव लोकशोकभित्प्रिययाद्भुतद्भुतसुवर्णवर्णया ॥' ग. ३. 'मेघकरणाद्वलेन' ग.