________________
१ आदिपर्व - ३ सर्गः ]
मणिक्लृप्तकुट्टिममरीचिवीचिकासतताभिरुद्धकुलटामलिम्लुचम् । विफलीकृतेन्दुरविकर्म निर्ममे भुवि येन हास्तिनपुरं पुरं महत् ॥ ६१ ॥ बहुहेतिदुर्धरसमिद्विकस्वरे ज्वलति प्रतापदहने जुहाव यः । पशुवद्विपक्षनिकरं यशोजलैरथ पूर्तवद्गगनमण्डलं व्यधात् ॥ ६२ ॥ नवकीर्तिदत्तसततामृतप्लवः परिलूनदानववितानविप्लवः ।
अधुनापि केन कुसुमैर्न पूज्यते यदसिर्धृतः शिरसि वेणिमूर्तिभिः ॥ ६३॥ यदुरुप्रतापपरितापताडितं निभृतं निभालय भुवनं सुखैकभूः । खरधामनामनिजधामगर्भतो निरगाद्बहिर्नहि पुरातनः पुमान् ॥ ६४ ॥ परदेशसंचलितदुःस्थयाचकप्रकरार्थमेव यदिलातले जनैः ।
अभिभूषिता विविधभूषणाशनैर्वनशाखिनोऽदधत कल्पशाखिताम् ॥ ६९॥ दिवि तत्र भानुजयिनाङ्गतेजसा प्रविलुम्पति पतिलोचनत्रजम् । प्रतिपक्षपार्थिवचमूविकुञ्चनस्तदभूद्विकुञ्चन इति क्षमापतिः ॥ ६६ ॥ मृदुमन्दमञ्जुलपदप्रपञ्चया सुविलासया दयितया सुदेवया । अतिशुद्धपक्षयुगया रराज यः पृथिवी विभुर्वरटयेव पल्वलः ॥ ६७ ॥ असिरेव यस्य दलितेभकुम्भतः प्रहतिस्फुलिङ्गयुतमौक्तिकव्रजात् । परिकुट्टिताहितमहामहोयशःकणसंचयानिव दिवि व्यकासयत् ॥ ६८ ॥ न कथं गुणैर्मदधिकोऽयमेति भूरखिलाप्यमुष्य सुकृतैरियं दिवि । इति विस्मयं रजसि यद्बलोद्गते द्युगपत्तनाकृत भृशं त्रिशङ्कुभूः ॥ ६९ ॥ गिरिशस्य गर्भभवनेऽपि तेन यः प्रबलः प्रतापदहनः प्रदीपितः । उदितं तदशिखया जगत्प्रभोध्रुवमस्य भालमभिभिद्य दृमिषात् ॥ ७० ॥ जगुरीदृगम्बरकदम्बडम्बरस्फुटरोम यद्वपुरपारमीशितुः ।
बालभारतम् ।
२३
स्फटिकावनीध्रवृषशेषयामिनीपतिजाह्नवीजलति तत्र यद्यशः ॥ ७१ ॥ स्वपरप्रभेदरहितेन दुर्नयं दधतो दयामयहृदैव देहिनः ।
उचितेन दण्डरचनेन मोचिता महतोऽपि येन परलोककष्टतः ॥ ७२ ॥ अनिमेषलोचनकरालताशुचं सुरसुभ्रुवां हरति तत्र हारिणि । अजमीढ इत्यथ भुजे भुवो भरं बिभरांबभूव भुवनैकभास्करः ॥ ७३ ॥ १. ‘विकुञ्चनादभवत्' ख.