SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७२ ५. काव्यमाला | धिग्भोगस्पृहयालुत्वं यत्कृते दुष्कृताशयः । शिष्यो वृद्धं गुरुं व्याजत्याजितास्त्रमपातयत् ॥ १११ ॥ इति प्रलापिनि क्रुद्धे शतक्रतुसुते ततः । जगाद नादयन्नुर्वी कोपनः पवनात्मजः ॥ १५२ ॥ क्षत्रियो मुनिवज्जल्पनैषि फाल्गुन वल्गुताम् । क्रूरारातिषु कः पार्थ प्रायो न्यायोचितं चरेत् ॥ ११३ ॥ किं नाम ध्वनिमुद्दामं कुरुते गुरुनन्दनः । मयि त्वयि च कृष्णे च संपरायपरायणे ॥ १५४ ॥ इत्युक्ति भीमसेनस्य गमयन्पूर्वरङ्गताम् । शतयज्ञसुतं यज्ञसुतः कोपोन्मदोऽवदत् ॥ १५५ ॥ अनस्त्रज्ञानपि ब्रह्मबन्धुर्ब्रह्मास्त्रतो हरन् । अधर्मर्समरः स्वैरी पितृवैरी मया हतः || १९६ ॥ भीष्मः पितामहो वृद्धो भगदत्तः पितुः सखा । 'धेर्मैकयोधिनौ जल्प कया युक्त्या त्वया हतौ ॥ १५७ ॥ इति ब्रुवन्तं पार्थेन धिगित्युक्त्वा कटाक्षितम् । क्रोधाग्निसंभ्रमभ्राम्यच्चक्षुस्तं सात्यकोऽभ्यधात् ॥ १५८ ॥ धिगस्माकं श्मलाचारानारादाराध्य घातिनम् । स्वस्था भवन्तं हन्तव्यमपि ये मृगयामहे ॥ ११९ ॥ अथैनं पार्षतः 'प्रोचे केन प्रायगतो हतः । यज्ञैकशीलो यूपाङ्कः पार्थकृत्तभुजः कृती ॥ १६० ॥ रे नृशंस दुराचार पुनर्यदि वदस्यदः । तत्त्वां हन्मीति जल्पन्तौ मिथस्तौ हन्तुमुद्यतौ ॥ १६१॥ कृष्णोक्त्या तौ च भीमेन वारितौ स्फारितायुधौ । जज्वाल दीप्तदिग्नालमस्त्रं च द्रौणिचालितम् ॥ १६२ ॥ १. 'साक्षात्' ख. २. 'मानि' ख. ३. 'इत्युक्तं ' ख. ४. 'समरस्वैरी' क. 'कर्मैक' ख. ६. 'कुशला' ग. ७. 'भवत' ख. ८. 'प्राह' ख. ९. 'क्षत' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy