SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-४सर्गः] . बालभारतम् । . .. - ३७३ अथ नारायणास्त्रोत्थैर्व्यथितां विविधायुधैः । सेनां प्रेक्ष्य नरं पश्यन्भूधवान्धामिरभ्यधात् ॥ १६३ ॥ सत्यजिप्रमुखा येन हता हन्त महारथाः । दुग्धमुग्धमुखो येन सौभद्रश्छलतो हतः ॥ १६४ ॥ दुर्योधनाय दुर्भेदं दिव्यं यः कवचं ददौ । वधे तस्य गुरोः क्रुध्यन्मध्यस्थोऽभून्मृधेऽर्जुनः ॥ १६५ ॥ (युग्मम्) स्वस्त्यस्मै भोः पलायध्वं प्रवेक्ष्याम्येष पावकम् । केन शक्योऽधुना जेतुं कालकल्पः कृपीसुतः ॥ १६६ ॥ अथोद्बाहुश्चतुर्बाहुरूचे प्रज्वलितान्नृपान् । नास्त्रेणानेन दह्यन्ते त्यक्तायुधरथा युधि ॥ १६७ ॥ इति श्रुत्वाभ्यधाद्भीमो भो भो मा भैष्ट भूमिपाः । हन्म्येष पश्यत द्रौणिं निर्दयं गदयानया ॥ १६८ ।। इत्युदीर्यातिगर्जन्तं धाविनं पावनि पुनः । मूढोऽयमित्युपहसन्द्रौणिर्बाणैरेपूरयत् ॥ १६९ ॥ अथो रथायुधमुचां मुक्त्वा चक्रं महीभुजाम् । एकीभूयास्त्रकीलालिड्भिीमं भीममासदत् ॥ १७० ॥ अस्त्रकीलाकलापेन वृतो भीमस्तदा बभौ । प्रतापभासुरो भानुयथा कल्पान्तवह्निना ॥ १७१ ॥ वारुणं मारुतित्राणमस्त्रमैन्द्रिस्तदामुचत् । क्षणान्नारायणास्त्रेण तदप्यफलितं बलात् ॥ १७२ ॥ अस्त्रेण ताप्यमानोऽपि युध्यमानो वृकोदरः । अभूच्चेतश्चमत्कारकारी दिविषदामपि ॥ १७३ ॥ मुक्त्वाथ मन्थरहयं रथमेत्यातिरंहसा । यानादाकृष्य कृष्णाभ्यां भीमोऽस्त्रं त्याजितो बलात् ॥ १७४ ॥ १. 'र्य निजं तेजः' क. २. 'रपूजयत्' क, ३. 'तेषां' क. ४. 'रिव' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy