SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३६६ काव्यमाला। एत्य पार्थवरूथिन्यां मृद्न्तमथ पार्थिवान् । पुनर्विरथ्याधिरथिं हैडम्बोऽविशदम्बरम् ॥ ७७ ॥ स दशापि दिशो हादै दैवोक्तिमयीः सृजन् । ववर्ष राक्षसो वृक्षविषद्रावपावकैः ॥ ७८ ॥ ततो पदे पदे शुष्यदिक्षु सर्वासु तद्बलम् । भिन्नपालिस्थलशिरःसरोजलमिवाद्रवत् ॥ ७९ ॥ शिश्रियुर्द्विट्चमूमेव केचित्केचिदहो पुनः । प्राविशंश्वाशु हस्त्यश्वशवशैलमहागुहाम् ॥ ८० ॥ विपरीताम्बुवृष्टयाभैस्ततः शरभरैर्नरः । सूरजः पूरयामास रुद्धद्विट्शस्त्रवर्त्मभिः ॥ ८१ ।। आर्केः शरा द्रुमा भैमेर्मिथः संघट्टजानलाः । ज्वलन्तः प्रपतन्तोऽथ प्रकृष्टायै मियेऽभवन् ॥ ८२ ॥ पलाशनबलाधीशः संरब्धोऽथ ववर्ष सः । कपाटसंधिघण्टाभिः सर्वाभिः शस्त्रजातिभिः ॥ ८३ ।। प्रच्छिन्नभिन्नदीर्णाङ्गक्रियासममिहारतः । हाहेत्येव ध्वनिमयस्तदाजनि चमूचयः ॥ ८४ ॥ मुहुः किलकिलारावं चक्रे दिवि सुदारुणम् । मुहुर्ननत काष्ठासु ज्वलद्रोमावलीमुखः ॥ ८५ ॥ ससादि सालंकरणं हस्त्यश्वमगिलन्मुहुः । । पपौ तडागतुल्याभ्यां प्रसृतिभ्यामसृङ्मुहुः ।। ८६ ॥ इति नक्तंचरो नक्तं चरन्समहरच्चमूः । दर्शनेनैव रौद्रेण मुधा पेतेऽस्त्रजातिभिः ।। ८७ ॥ स्वस्तीत्युक्त्वाथ यातेषु दिवः सिद्धसुरर्षिषु । क्षीयमाणासु सेनासु व्याकुलेषु जगत्स्वपि ॥ ८८ ॥ १. 'गुहाः' ग. २. 'सादी तुरंगमातङ्गरथारोहेषु दृश्यते' इति मेदिनी.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy