SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-४सर्गः) बालभारतम् । निष्कम्पः कम्पयन्नोष्ठं निश्चलचालयन्भुजम् । निय॑थो व्यथयन्मौर्वी काण्डैः कर्णोऽपि तं प्यधात् ॥ १५ ॥ भैमेश्चक्रं सहस्रारं सहस्रांशूपहासकृत् । ज्वलद्वयोम्नि शरैः साधुसहस्रांशुसुतोऽच्छिनत् ॥ ६६ ॥ अथ धुपथमाविश्य सरथः सैष पार्थभूः । हिंस्रः प्राणिसहस्राणि भूत्वा भूत्वापिषविषः ॥ १७ ॥ जज्वालोर्वी शिखिज्वालैौश्चकर्ष शिलोच्चयैः । दिशो मुश्चराक्षसौघाद्विट्सैन्ये भैमिमायया ॥ ६८ ॥ दिव्यास्त्रेणाथ तां मायां हत्वार्किः कर्कशैः शरैः । क्षिपन्राक्षसलक्षाणि दिद्युते रामविक्रमः ॥ ६९ ॥ या रुद्रेण स्वयं चक्रे सा चक्रैरष्टभिर्वृता । भैमिक्षिप्ताशनिः शीर्णरथमाधिरथिं व्यधात् ॥ ७० ॥ ततः कर्णशरक्षुण्णस्यन्दनः पिशिताशनः । खमुत्पपात तरसा पक्षीव क्षीणपञ्जरः ॥ ७१ ।। मायाविनममायेन भूमिस्थेन नभःस्थितम् । प्रयुध्यमानं भीमेन पलादेन्द्रमलायुधम् ॥ ७२ ॥ बकस्य रक्षसो मित्रममित्रघ्नो घटोत्कचः । तदा प्रदारिताशाभिः क्ष्वेडाभिः संमुखं व्यधात् ॥ ७२ ॥ (युग्मम्) ताहक्प्रतिभटालाभचण्डकण्डूविखण्डिनोः । तयोर्महाप्रहारोऽभूत्कृतान्तभुजयोरिव ॥ ७४ ॥ विशीर्णानि मिथोघातध्वानोमस्थयोस्तयोः । गिरिशृङ्गाण्यपि तदा भीतानीव भुवं ययुः ॥ ७९ ॥ भैमिकृत्तमथ द्वेषिमुण्डमुज्ज्वलकुण्डलम् । दिवः पविज्वलत्पक्षद्वयो गिरिरिवापतत् ॥ ७६ ॥ १'व्यधातू' क-ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy