SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-४सर्गः] बालभारतम् । - ३६७ अहो गजेषु वाहानां वाहेषु भुंजवाहिनाम् । भुजवाहिषु चाद्रीणां तलमिच्छत्सु संश्रयम् ॥ ८९॥ कौरवाः करिघण्टाभिरुत्तमाङ्गैकरक्षिणः । एत्य युद्धरसाधीनं दीनास्याः कर्णमूचिरे ॥ ९० ॥ (त्रिभिर्विशेषकम्) अधुनाप्यमुनास्मासु हृतासुषु वृषंस्त्वया ।। शक्त्या निघात्यः कस्यार्थे पार्थो वासवदत्तया ॥ ९१ ॥ इत्याकामुचत्कर्णस्तदस्त्रं वासवं ज्वलत् । सुसंकटाय कस्मैचिन्निधानमिव रक्षितम् ॥ ९२ ॥ मायास्त्रस्य पलादस्य मायास्थानं विदार्यहृत् । घ्नती तमोऽपि तन्मित्रं सा शक्तिस्त्रिदिवं ययौ ॥ ९३ ॥ विपन्नोऽपि हितं स्वेषां परेषामहितं सृजन् । संजहार महारक्षो विभुरक्षौहिणीं पतन् ॥ ९४ ॥ पतिते तत्र वीरेन्द्रे कौरवा ननृतुर्मुदा । कृष्णोऽपि जगदात्मत्वं ज्ञापयन्निव नृत्तवान् ॥ ९५ ॥ विष्वक्सेनविषादेऽपि कृत्ये नृत्येन भासि किम् । इत्यैन्द्रिणा तदा पृष्टो नृत्यन्नेवाभ्यधात्प्रभुः ॥ ९६ ॥ तेजोमयवपुः कर्णः कुरूणां जीवितं परम् । शक्तिर्वासवदत्तेयमभूत्तस्यापि जीवितम् ॥ ९७ ॥ न त्वत्सूनुरघानीति हसन्तीवांशुभिर्मुदा। सैकपुंघातिनी शक्तिभैमि हत्वा हरिं श्रिता ॥ ९८ ॥ गतायां त्रिदिवं तस्यां मृतानेतान्न वेत्सि किम् । यात्यायाति मुखेऽमीषां श्वासः कोटरकायवत् ॥ ९९ ॥ १. 'अथो' ख. २-३. 'गज' ख. ४. अकारान्तवृषशब्दस्य क-ख-ग-पुस्तकहटस्य कर्णवाचकताया मेदिन्यामदर्शनात् , नकारान्तस्यैव दर्शनात् 'वृषस्त्वया' इत्युचितम्. ५. 'वाथ सं' क. ६. 'जगदात्महित तत्त्वं' क. ७. 'रघातीति' क-ख. ८. 'योत्या' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy