________________
३६२
काव्यमाला |
क्षिप्ताः खे सप्त भीमेन दीप्ताः सौवलमौलयः । तत्क्ष्वेडा भ्रष्टसप्तर्षिकमण्डलुनिभा बभुः ॥ २९ ॥ दिव्यास्त्रदीप्तिवित्रस्ततमा समरडम्बरः । द्रोणधर्मजयोर्वीरैर्दृष्टः स्पृष्टः कुतूहलात् ॥ ३० ॥ अथ पाण्डुभुवां काण्डैराकुले सकले बले । दीनवाचि नृपेऽवोचन्मुञ्चन्नुचैरिषून्र्वृषा ॥ ३१ ॥ मा भैषीरेष विद्वेषिपेषे भारोऽस्ति भूप मे । अद्य ते रोचये राज्यं मोचये नरतां नरात् ॥ ३२ ॥ इदं कर्णे वदत्यूचे कृपः किं गोग्रहादिषु । नसुतसुत दृष्टोऽसि शक्त्या युध्यस्व गर्ज मा ॥ ३३ ॥ अथ क्रुद्धोऽभ्यधात्कर्णः कृपाचार्य कृपाणवान् । वैदस्यदो यदि पुनस्तच्छेद्या रसनामुना ॥ ३४ ॥ ततः स्फीतोऽग्रहग्द्रौणिर्मातुलाक्षेपको पैंतः ।
रे रे किं वदसीत्युक्त्वा कीर्णासिः कर्णमाद्रवत् ॥ ३९ ॥ कर्णोऽप्यभ्युद्ययौ सासी दासीकृतयमाविमौ । मध्यमेत्य कृपाचार्यनृपाभ्यां शमितौ द्रुतम् || ३६ | कालैरिवाथ निघ्नद्भिः कर्णद्रौणिसुयोधनैः । आसन्परेषु मर्तव्यम्रियमाणमृतोक्तयः ॥ ३७ ॥ मौर्वी चार्जुनचापस्य सेना च कुरुभूपतेः । प्रबद्धमुष्टिर्वेगेन कर्णमूलमुपाविशत् ॥ ३८ ॥ रथे मनोरथे वाथ भग्ने फाल्गुनमार्गणैः । गन्ता तपस्वितां कर्णः कृपाचार्यमुपाश्रयत् ॥ ३९ ॥ द्रौणिध्वस्तद्रुपदजत्रजासृङ्घिर्झरोद्गमैः ।
तमः क्रव्यात्कुलं दूरकृष्टजिह्वमिवैक्ष्यत ॥ ४० ॥
१. ‘मिवा’ ख. २. ‘वृषा कर्णे महेन्द्रे ना' इति नान्ते मेदिनिः. 'वृषः' क-ख-ग. ३. 'वदस्येवं' क. ४. 'च्छिन्द्यां रसनामिमाम्' ख. ५. 'पुनः' ग. ६. 'कोपनः' ख- ग. ७. 'भाषयसी' क.