SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-३सर्गः] बालभारतम् । · हत्वा बलावलीस्तेन पार्थेशे विरथीकृते । हतो हतोऽद्य राजेति लोकाः शोकात्प्रचुक्रुशुः ॥ ७७ ॥ लिप्तां शक्तिं नृपेणाथ कटुक्काणां सघण्टिकाम् । ब्रह्मास्त्रेणाच्छिदद्रोणस्तच्छौर्यरसनामिव ॥ ७८ ॥ सहदेवरथेनाथ पलाय्य प्रययौ नृपः । दर्शितस्वामिभक्त्येव सेनयाप्यन्वगामि सः ॥ .७९ ॥ अथ पार्थचमूवीरैः समीरैः क्षयनैरिव । शोषिताः परवाहिन्यो रङ्गितासितरङ्गिताः ॥ ८० ॥ करटीव बृहत्क्षत्रः कैकयानीकनायकः । द्रोणानुगं क्षेमधूर्ति स्तम्भपातमपातयत् ॥ ८१ ॥ जघानाथ त्रिगत स धृष्टकेतुर्महारथम् । सहदेवोऽरिमित्रं च व्याघ्रदत्तं च सात्यकिः ॥ ८२ ॥ त्वाष्ट्रास्त्रहतमायास्त्रं भीमं भीमवधोद्यतम् । अलम्बुषं रथात्कृष्ट्वा निष्पिपेष घटोत्कचः ॥ ८३ ॥ तदाभूद्रौणभैमिभ्यां भज्यमानबलद्वये । क्षोणिभृत्क्षुभिताम्भोधिक्रोधी कलकलः कलः ॥ ८४ ॥ (अर्जुनप्रवेशः) दवीयसस्तदा जिष्णोरशृण्वशङ्खनिःस्वनम् । सात्यकि कार्णिचरितपरितप्तोऽभ्यधान्नृपः ॥ ८५॥ . शूर क्रूरचरित्रेषु प्रविष्टस्ते गुरुः सुँहृत् । धर्मज्ञ तव कालोऽयमालोकय शरण्यताम् ॥ ८६ ॥ प्रयातेऽपि त्वयि प्राणसदृक्षस्य दिदृक्षया । द्रोणाद्रौपदिभीमाभ्यां समेतस्य न मे मयम् ॥ ८७ ॥ इति श्रुत्वा तथेत्युक्त्वा दत्त्वा हुत्वा च सात्यकिः । स्रग्वी धात्रीशमामन्य मङ्गलालंकृतः कृती ॥ ८ ॥ १. 'पार्थेन' ख. २. 'धृष्टकेतुं म' ख-ग. ३. 'द्रौणि' क-ख. ४. किल' ग. ५. 'द्रौणि' ख. ६. 'चरित' ग, ७. 'सकृत्' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy