________________
काव्यमाला। - काण्डखण्डितविद्वेषिरक्तसिक्तेन वर्मना । रथेन रंहसाचालीदुबूतरजसा मुखम् ॥ ८९ ॥ (युग्मम्) द्रोणसात्यकयोः काण्डमण्डपच्छन्नचण्डरुक् । रणोऽभूदस्त्रसंघट्टस्फुलिङ्गास्ततमास्ततः ॥ ९० ॥ गुरो त्वच्छिष्यमत्वेष्टुर्न मे(?) संरोद्भुमर्हसि । इत्युक्तिभाजि शैनेये गुरुरूचे न मुच्यसे ॥ ९१ ॥ इत्युक्तवन्तमुत्काण्डकोदण्डं दुर्जयं गुरुम् । वञ्चयन्रथवेगेन सात्यकियूहमाविशत् ॥ ९२ ॥ निकृत्य कृतवर्मादीनप्रमादी विशन्नसौ । चक्रे क्षितिभुजङ्गानां क्षयं तारिवाशुगैः ॥ ९३ ॥ . पाण्डवाश्चण्डकोदण्डा व्यूहभेदोद्यतास्तदा । गुणा इव प्रमादेन वारिताः कृतवर्मणा ॥ ९४ ॥ रणत्पत्रिभृतव्योमा संरम्भात्ताम्नदीधितिः । शिनेः सूनुस्तदा वीरनेत्राम्भोजनिमीलनः ॥ ९५ ॥ सिन्धुराजलसंधाख्यं मगधेन्द्रमपातयत् । संध्याकाल इव क्षिप्रं चण्डांशुं चरमाचलात् ।। ९६ ॥ (युग्मम्) मार्गणालक्षदानेन प्रीणयन्स पदे पदे । नरनारायणौ द्रष्टुं शैनेयोऽचलदुत्सुकः ॥ ९७ ॥ गन्धसिन्धुरगन्धर्ववीरेन्द्रध्वजिनीव्रजान् । यमोऽङ्गालीभिस्तद्वाणैर्लोलं लोलं मुदागिलत् ॥ ९८ ॥ सुदर्शनादिभूपालमौलीन्पत्रिभिरुत्क्षिपत् । व्योम्नः स चक्रे चण्डीशमूर्तेर्मुण्डालिमण्डनम् ॥ ९९॥ . शैनेयसायकैलूंनो दूनो दुःशासनस्तदा । द्रोणं प्राप मनस्तापप्रम्लानाधरपल्लवः ॥ १०० ॥ १. वर्मणा' क. २. 'दधूत' क-ख. ३. 'च्छिन्न' क. ४. 'माम्' इत्युचितम्. ५. 'विकृत्य' ख. ६. 'वर्मादीन्प्रमादीव' ख-ग. ७. बाणान् , याचकांश्च. ८. लक्षमख्यवसुदानेन, लक्ष्यदानेन च. 'लक्ष्य' ग.