________________
३१६
काव्यमाला |
( युग्मम्)
वीरजं चेति राजेन्द्र हत्वा नव सुतस्तव । भ्रातृपुत्रवधक्रोधी भीमोऽमृद्भाद्भव चमूः ॥ १९२॥ पाण्डवैः खण्ड्यमानानामिति भूप भवद्भुवाम् । कृपयेव पयोराशिं गतेऽर्केऽवहृतं नृपैः ॥ १९३ || (अष्टममहः ) आनाय्य कर्णो राज्ञाथ पृष्टः पार्थपराभवम् । ऊचेऽहं संहराम्येकः शत्रुं भीष्मोऽस्त्रमुज्झतु ॥ १९४ ॥ सारालंकार भाग्दीपैर्महीपैरिव भासुरः ।
गतोऽथ पार्श्व भीष्मस्य तेन राजेति पूजितः ॥ १९९ ॥ भीष्मं भूपो व्यधात्तात भग्नस्त्वद्वाहुनामुना । क्षत्रान्तकारी कृष्णस्यावतारो भृगुनन्दनः ॥ १९६॥ इति शक्तोऽपि यद्येतान्क्षत्रियान्कृष्णरक्षितान् । न हंसि कृपया भीतान्हन्तु कर्णस्तदाज्ञया ॥ १९७ ॥ इत्युक्ते भूभुजा भीष्मः कोपाद्भूर्ति जयज्जगौ । केन जेयोऽर्जुनः किंतु दृश्या मन्मार्गणाः प्रगे ॥ १९८ ॥ इति प्रीते गते राज्ञि प्रातः शान्तनवो व्यधात् । प्राग्व्यूहं सर्वतोभद्रं प्रतिव्यूहं च सौकृतिः ॥ १९९ ॥ सेनासंपातखाताया रणोत्थरुधिरच्छलात् । रेजिरे रत्नगर्भाया गर्भरत्नद्युतिस्तदा ॥ २०० ॥
सौभद्राम्बुदनाराचधाराचक्रप्रपञ्चतः ।
ययौ दिशि दिशि त्रस्तं धार्तराष्ट्रबलं ततः ॥ २०१ ॥ तमभ्यधावत्क्रोधेन धुर्यो दुर्योधनेरितः ।
क्ष्वेडयैव क्षिपन्प्राणान्भूपालानामलम्बुषः ॥ २०२ ॥ द्रौपदेयैर्मदा टोपज्वलितैः स्खलितः क्षणम् ।
सोऽभिमन्युरथं निन्ये शल्यैः शल्यकतुल्यताम् ॥ २०३ ॥ प्ररूढशरशैलाग्रशृङ्गतां काष्णिमार्गणैः ।
नीयमानो भयात्तेने सोऽथ मायां तमोमयीम् ॥ २०४ ॥
१.
'चमूम् ' ग. २. 'राजाति' ख. ३. 'द्राग्व्यूह' ख ग.