________________
६ भीष्मपर्व-२सर्गः] बालभारतम् ।
तायाभूयामुना भुज्यमानानां फणिनां मणीन् । पततः काणिरैलिष्ट दिवा नक्षत्रवृष्टिवत् ॥ १८० ॥ भुक्त्वाथ भोगिनो भूरीन्कृतभीमनिजाकृतिः । पलादः प्रोन्ननाद द्राग्लोकत्रयभयंकरः ॥ १८१ ॥ पुरो मायामयी मूर्ति कृत्वा योद्धं निशाचरः। खङ्गेनापातयत्पश्चात्काणेरुत्कुण्डलं शिरः ॥ १८२ ॥ दृष्ट्वा हतमिरावन्तं तं तुदन्तं द्विषच्चमूः । क्रुद्धोऽस्तदिक्करिक्रीडां क्ष्वेडां चक्रे घटोत्कचः ॥ १८३ ॥ स राज्ञा षड्रसास्वादसंभूतरससंकरैः । खभटान्प्रीणयन्मांसममन्थारिवरूथिनीम् ॥ १८४ ॥ गद्गुरुगजानीको मानी कोपारुणेक्षणः । तमभ्यधावद्धात्रीशो मृत्यु यम इवोद्धतः ॥ १८५ ॥ घटोत्कचस्य चतुरश्चकर्त सुभटानयम् । शौर्यश्रीमन्दिरस्तम्भानिव जम्भारिविक्रमः ॥ १८६ ॥ शक्तिर्घटोत्कचेनाथ क्षिप्ता मापतये रयात् । नागं वङ्गाधिपेनान्तर्नीतं विघ्नरुषापिबत् ॥ १८७ ॥ रङ्गद्भुजतुरङ्गेऽथ घटोत्कचबलेऽचले । उद्वेलार्णवतुल्येऽभूद्वाहिनीयं पराङ्मुखी ॥ १८८ ॥ नमभूमि भ्रमद्वार्धि त्रुटदद्रि त्रसजगत् । तदाभूत्कोऽपि संमर्दः पलादभगदत्तयोः ॥ १८९ ॥ श्रुत्वा सुतवधं जिष्णुर्निमन्त्रितयमक्रुधा । चक्रे महीं महीन्द्राणां शीर्मोदकालिनीम् ॥ १९० ॥ अनावृष्टिं कुण्डलिनं व्यूढोरोदीर्घलोचनौ ।
कुण्डभेदं दीर्घबाहुं सुबाहुं कनकध्वजम् ॥ १९१ ॥ १. 'देवानिव त्रिविष्टपात्' ख. २. 'नेतुमन्तं' ख-ग. ३. 'दस्तकरि' क. ४. 'शै. लिनीम्' ख.