SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ६ भीष्मपर्व -२ सर्गः ] बालभारतम् । कवलीकृतमार्तण्डं तदोच्चैः प्रसृतं तमः । रक्षोमुखाग्निकीलाभिः स्फारोद्धारमिवाबभौ ॥ २०९ ॥ तमोवलज्वलन्नेत्ररक्षोभिः क्षोभिते बले । आर्जु निर्व्यतनोदस्त्रं तापनं स्वप्रतापवत् ॥ २०६ ॥ क्व यास्यतीदमित्यर्कैः सर्वतोऽभ्युदितैस्तदा । क्ष्मायाश्छायामयमपि ध्वान्तमैग्रासि हासिभिः ॥ २०७॥ तमसि ग्रस्यमानेऽर्कैस्तमः श्यामं निजं वपुः । निभायेव भयार्तेन पलादेन पलायितम् ॥ २०८ ॥ प्रहारचण्डैर्नाचालि वाचालैर्घटितोऽप्यथ । भीष्मादिभिः परिणतैः सौभद्रोऽद्रिरिव द्विपैः ॥ २०९ ॥ अथैन्द्रिः सुतसंघट्टकुपितः कपिकेतनः । अस्त्रं ससर्ज वायव्यं कायव्ययकृते द्विषाम् || २१० ॥ लोठितानां भटेन्द्राणां यशांसीव समीरणाः । स्थलान्युत्क्षिप्य मलिनीचक्रिरे धूतधूलयः ॥ २११ ॥ क्षिप्ताः शैलास्त्रतः शैला द्रोणेन स्खलितानिलाः । अधावन्नधरीकर्तुमिन्द्रवैरादिवेन्द्रजम् ॥ २१२ ॥ अथ पार्थेन नाराचसार्थेन कुलिशत्विषा । विकीर्य जालं शैलानामालभ्यत बलं द्विषाम् ॥ २१३ ॥ वातपुत्रगदाघातक्षतमातङ्गजातजाः । तत्रासृक्सरितः सस्रुः प्रेतहासोच्च फेनिलाः || २१४ ॥ शिरः कलिङ्गकै रुण्डकूष्माण्डैर्भुजचिर्भटैः । क्षिप्तै राज्ञां व्यधाद्भीष्मः कालशाकवनं मृधम् ॥ २९९ ॥ भीष्मवाणच्युतै राज्ञां छत्रैश्चामरसंयुतैः । कीर्णा तद्यशसां शीर्षैर्मुक्तकेशैरिवावनिः ॥ २१६ ॥ भीष्मो भालाग्रविश्रान्तभ्रमत्कुड्मलपाणिभिः । वृद्धवेतालनारीभिर्दत्ताशीः प्राहरच्चमूः ॥ २९७ ॥ १. 'मग्नासिहासिभिः ' ख ग २. 'अथेदृक्सुत' ख-ग. ३. 'त्कुण्डल' ग. ३१७
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy