________________
३०६
काव्यमाला ।
अथावासेषु निर्गम्य शर्वरीं स्वप्नसंगरैः । व्यूहेन्द्रं कौरवाश्चकुरर्धचन्द्रं च पाण्डवाः ॥ ६८ ॥ अथ रक्तौ संवृत्तप्रातः कृत्यपिशाचकम् । भीष्माभिमन्युप्रमुखा विदधुर्युद्धमुद्धतम् ॥ ६९ ॥ भूपालैः कालबालस्य प्रातराशं प्रकल्पयन् । कर्मव्यूह इवात्मानं भीष्मोऽर्जुनमयोधयत् ॥ ७० ॥ कृताधिक प्रतिकृतैस्तौ हृष्यन्तौ मुहुर्मिथः । चिरं चिक्रीडतुश्चारुसौहार्दो सुहृदाविव ॥ ७१ ॥ अभिमन्युः शरासारैरेकः शत्रूननेकशः । आच्छादयदुडुस्तोमान्करैरिव दिवाकरः ॥ ७२ ॥ पौरव्यपुत्रं दमनं नृपं सांयमनि पुनः । कर्मकालाविव ज्ञानी धृष्टद्युम्नस्तदावधीत् ॥ ७३ ॥ भीमो भेजे द्रुतं प्रीतिभावं धावत्सु संमुखम् । मगधेन्द्रगजेन्द्रेषु भेकेष्विव भुजंगमः ॥ ७४ ॥ गदापाणेस्तदा तस्य पादातस्य प्रसर्पतः । पेदोत्पातेन नागेन्द्रा द्वयेऽपि विचकम्पिरे ॥ ७५ ॥ खण्डितं तद्गदापातैरुच्छलन्मौक्तिकच्छलात् । तदोत्पपातकुम्भम्यो दिक्कुम्भिजयजं यशः ॥ ७६ ॥ भीमस्य पादपातैर्या पीडा भोगिविभोरभूत् । नैव सा तदोत्क्षिप्तगजेन्द्रगिरिपाततः ॥ ७७ ॥ घ्नन्ति तस्मिन्रथोत्पातापातरक्ताब्धिमज्जनैः । गजान्वीक्ष्याकुलान्देवाः क्षिप्ताद्रेरस्मरन्हरेः ॥ ७८ ॥ इति क्षतसमस्तेभवल्गनं फाल्गुनाग्रजम् । कृतान्तमिव संभ्रान्तमीयुर्दुर्योधनादयः ॥ ७९ ॥ काण्डेन कुरुराजेन ताडितः पीडितः क्षणम् । स्तब्धोऽभूत्तद्वधोपायं ध्यायन्निव वृकोदरः ॥ ८० ॥
१. 'निर्वर्त्य' ग. २. 'तदो' ग; 'पादो' ख.