SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ६ भीष्मपर्व-२सर्गः] बालभारतम् । ३०१ इत्युक्तिपारे भक्त्या च चक्राप्तिस्पृहयापि च । नमन्मूर्धनि गाङ्गेये मुक्तिलक्ष्मीकटाक्षिते ॥ ५६ ॥ अनूत्पत्य समुत्थाप्योत्प्लुत्यारोप्य रथे हरिम् । जज्ञेऽर्जुनस्त्रिजगतीप्रेक्षणीयवपुः क्षणम् ॥ १७ ॥ (युग्मम्) विश्वेश कोऽयमारम्भः संरम्भस्त्यज्यतामयम् । प्रभावः प्रेक्ष्यतां प्रेवन्स्व एव मयि बिम्बितः ॥ १८ ॥ इत्युक्त्वा हृष्टवैकुण्ठकम्बुनादैः कृतोद्यमाः । ज्यानादैराह्वयत्पार्थः सुरीर्वरवरोत्सुकाः ॥ १९ ॥ भुजगीव भुजा तस्य कृष्टचापबिलाग्रगा। असूतेवाशुगान्सन्निरेन्द्रैरपि दुर्धरान् ॥ ६० ॥ तुल्यकालोच्छलच्छत्रैररोधि क्रोधनैरयम् । संभूय भूभुजां भारैर्जम्भारिरसुरैरिव ॥ ६१ ॥ अथोत्कृत्तद्विषद्देहवाहनायुधकेतनम् । माहेन्द्रमस्त्रं माहेन्द्रिय॑धाद्विश्वक्षयक्षमम् ॥ १२ ॥ कोऽप्यासीत्खण्ड्यमानानां पाण्डवास्त्रैविरोधिनाम् । धीवरैधूयमानानां शङ्खानामिव निःस्वनः ॥ ६३ ॥ पतन्त्येव बलाङ्गानि विखण्ड्याहर्तुमुत्सुकाः । विलसन्रक्तकुल्यासु पिशाचास्तिमिरूपिणः ॥ ६४ ॥ धनंजयजये वीरा बबभ्यासभुजामदम् । तदोचैरमुचन्नब्धितरणे तारका इव ॥ ६५ ॥ पार्थास्त्रक्षुण्णसैन्योत्थैरक्तसिक्त इवारुणः । दिनेशः प्रविवेशाब्धौ तदा स्नानमनोरथः ॥ ६६ ॥ आप्रभाते रणाम्भोधौ संपृक्ते दिवसात्यये । तदिति व्यथितं चक्रद्वयं विघटितं तदा ॥ ६७ ॥ (टतीयमहः) १. 'प्रेक्षणीय इव' ग. २. 'वेकुण्ठ' क. ३. 'द्यमान्' क. ४. 'त्सुकान्' क. ५. 'द्यद्रक्त' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy