________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
पार्थेनाथ रथस्थेन पृषत्केन हृदि क्षतः । वर्णिकां मरणस्येव मूर्छामाप सुयोधनः ॥ ८१ ॥ सेनापति सुषेणाख्यौ जलसंधसुलोचनौ । भीममुग्रं भीमरथं भीमबाहुमलोलुपम् ॥ ८२ ॥ समं विवित्सुविकटौ दुर्मुखं दुष्प्रधर्षणम् । इमान्यमातिथीकृत्य तत्सुतांश्च चतुर्दश ॥ ८३ ॥ चतुर्दशसु विश्वेषु व्रजतां यशसामसौ । उच्चैः सहचरीचक्रे सिंहनादान्वृकोदरः ॥ ८४ ॥ (विशेषकम् ) विषमास्त्रप्रगल्भेऽथ भगदत्ते समेयुषि ।
संकोच नवीनेव रोमा भीमपताकिनी ॥ ८५ ॥ भीमो मूर्छन् ध्वजालम्बी विद्धस्तदिषुणा हृदि । घूर्णन्बभौ स्तम्भवद्धो मदान्ध इव सिन्धुरः ॥ ८६ ॥ स्वभटारूढदिग्दन्तिघटो मायी घटोत्कचः । तमिभस्थं सुरेभस्थस्ततस्तातनुधारुधत् ॥ ८७ ॥ तदस्त्रवृष्टिभिः शौर्यलताकन्दौ तदापतुः । उत्कर्ष भगदत्तश्च सुप्रतीकश्च तद्द्वजः ॥ ८८ ॥ प्रणादैर्भगदत्तस्य सुप्रतीकस्य चाद्भुतैः । द्रानरेन्द्रा गजेन्द्राश्च बभूवुर्विमदास्तदा ॥ ८९ ॥ समुज्झितेव दिग्नागैर्घटोत्कचहृतैरिव । तदा तैमीमःक्रान्ता सिन्धुमव भूर्बभौ ॥ ९० ॥ मायिनां रणराज्याय रक्षसां दिवसो निशा ।
इति भैमिभिया भीष्मोऽवहारं व्याहरज्जवात् ॥ ९१ ॥
न मृतस्तावदद्येति ध्यायन्तः कौरवा ययुः ।
वोऽप्यमून्हन्म एवेति स्मरन्तः पाण्डवाः पुनः ॥ ९२ ॥ (चतुर्थमहः)
१. रामापक्षेऽप्यर्थः स्फुट एव. २. 'नैशतमः क्रान्ता' ख.
३०७