________________
२८०
काव्यमाला |
स्फुटतराग्रकरः परितोऽम्भसि बुडितवानुदमज्जदथ द्विपः । धुतमुखः कृतचीत्कृतिरम्बुजभ्रमपतन्मधुपाकुलपुष्करः ॥ ३० ॥ उदयदान्तर शैत्यगुणौ परस्परभवत्परिरम्भविजृम्भणैः । वरसरित्करिणौ पतितः परां मुमुचतुः परितापपरम्पराम् || ३१ ॥ मधुपगीतगुणानि जलस्य यज्जलरुहाणि जहार महागजः । तदिदमप्यहरन्मुहुरूर्मिभिर्मदममुष्य विसृत्वरसौरभम् ॥ ३२ ॥ तिमिविलोलदृशः सरितो मदैर्मृगमदैरिव पत्रलताततिम् । विकटकुम्भयुग प्रतिबिम्बतस्तनतटीषु ततान मतङ्गजः ॥ ३३ ॥ उदितबुद्बुदवृन्दभृशस्विदं बहु विलस्य नदीं नलिनाननाम् । पुनरुदित्वरदानवशैर्वृतः सहचरैरलिभिर्निरगादिभः ॥ ३४ ॥ गजगणे गतवत्यथ तत्क्षणादभिगतासु कुतोऽपि सखीष्विव । अकथयद्वरटासु नदी मदाविलजलालिरवैरिव संभ्रमात् ॥ ३५ ॥ तरुतलेषु निषेण्णमथो पथो गमनखिन्नमशक्तमितो गतौ । जनमपास्य विनिश्वसदाननं द्विरदराजिरवध्यत सादिभिः || ३६ || कुसुमसंचयवृष्टमधुच्छटासुरभिपृष्ठनिविष्टषडङ्गिभिः ।
कुथवृतैरिव मुक्तकुथैरपि द्रुमतलेषु तदा करिभिर्बभे ॥ ३७ ॥ दसंहतितो जलवर्षणं तलममुष्य भजेदिति मूलगैः । जलधरैरिव मुक्तमदाम्बुभिर्भृशमिभैः समसिञ्चि तरूच्चयः ॥ ३८ ॥ सुखनिमीलितदृग्रसनाशिखामिलिततालु विघूर्णितविग्रहम् । पदमतन्यत शाखिषु योगिवत्करिभिराहृतपिण्डनिरादरैः ॥ ३९ ॥ क्षुधितमप्यलसं परिचारकाः करधृतैः कवलैर्धृतपङ्किलैः । विदधतः परितः परिताडनं चटु च डिम्भमिवेभमभोजयन् ॥ ४० ॥ गजघटागतिकुट्टिमितं खुरैः स्थपुटतामनयन्पुलिनं हयाः ।
अपि महद्भिरतीव समीकृतं विगमयन्तितरां तरला न किम् ॥ ४१ नखविलासजुषः कृतशिङ्खनश्वसितलोलरजःकणकम्पिनीम् । सरभसं परिवेल्लनकैतवाद्वसुमतीं हरयः परिरेभिरे ॥ ४२ ॥
१. 'निखिन्न' क. २. 'तदल' ख- ग.