SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ५उद्योगपर्व-४सर्गः] बालभारतम् । विपरिवर्तरयोर्धमुखाञ्जयः क्षणमतिप्रचलत्वभृतो हयाः । स्फटिककुट्टिमकान्तिनि सैकते रवितुरङ्गमबिम्बनिभा बभुः ॥ ४३ ॥ चिररजोलुठनैर्मलिनं श्रियः सुतमपि द्रुतमङ्कमुपागतम् । खयमसिस्नपदेव सरस्वती स्व इव भाति परोऽपि सतां श्रितः॥४४॥ . अपि तनूषु न भेदमदीदृशन्मधुरधीरगभीरमधुध्वनिम् । चपलतैकपराः परिरेभिरे लहरयो हरयोऽपि परस्परम् ॥ ४५ ॥ अवतरन्तममुं सरितो हरिप्रकरमाशु विलचितरोधसम् । लहरिपूरमिवैक्षत दूरतश्चलितमुच्चमियं चकिता चमूः ॥ ४६ ॥ पुरुषमानपटूकृतकीलकव्यतिकरग्रथिताजिनवल्लिषु । करयुगान्तरिता परितो हयावलिरबध्यत बल्लवपालकैः ॥ ४७ ॥ प्रमदनादभृतां परिवल्गतामित इतोऽपि खुरैः खनतां क्षितिम् । तृणमुचां वदनेष्वथ वाजिनां सपदि खाद्यमबध्यत किंकरैः ॥ ४८ ॥ अविरलोच्चदलोचयखादनैर्मयगणः क्षणतो धरणीरुहाम् । असृजदीदिशिरोपनोत्सवानिव स गीतिषु दिक्षु खगारवैः ॥ ४९ ॥ जीवः क एष किमु नाम विलोकतेऽसा___ वुत्कंधरः प्रकुपितः पटुदीर्घदन्तः । एवं विलोक्य रवणं वनमेदिनीषु दूरं पलायत भयादिभसूदनोऽपि ॥ ५० ॥ शीकरार्धतृणच्छद्मस्वेदरोमाञ्चकञ्चकाम् । हर्षी वृषचयोऽचुम्बन्नदीतीरभुवं युवा ॥ ११ ॥ यस्मै यद्यजनितमशनं तेन तेनातिखिन्ना पश्चात्पश्चादभिगतवतो भोजयामासुराशु । आसंध्यं ये स्वयमविदितक्षुद्भराः सत्त्ववीरा स्तेषां क्षीराकृतियश इव प्रोदगादिन्दुरोचिः ॥ १२ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के उद्योगपर्वणि निवासनिवेशो नाम चतुर्थः सर्गः । १. 'विपरिवर्तनयो' ख. २. 'मपि स्वप' क. ३. 'सुमहदन्तरतः' क-ख. ४. 'भक्ष' क. ५. 'वयवो' ग. ६. 'स्वस्मै' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy