SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ५उद्योगपर्व-४सर्गः] बालभारतम् । २७९ पुलकिभिर्मुकुलायितलोचना सरभसं कुचमूलमिलद्भुजैः । गलविलम्बिकुचद्वितया हयाप्रियतमैरुदतारि बत प्रिया ॥ १७ ॥ क्षितिरगृह्यत सत्यमसौ युधि तदिह तत्र सतामुचिता हतिः । इति विचार्य भटै मृगादयो ववधिरे विधुराक्षपलायिनः ॥ १८ ॥ पटमयानि वितन्य निकेतनान्यभिपतजनसत्कृतितत्पराः। रुरुचिरे वणिजो गणिका इवोत्तरलकङ्कणकुण्डलसद्रुचः ॥ १९ ॥ कणजलेन्धनवह्निजिघृक्षया परिजने निखिलेऽपि गतेऽभितः । वसनवेश्मसु संमदमद्भुतं क्षणमधुः पतयो दयितासखाः ॥ २० ॥ पतितसैन्यरजःपटलं पटू भवति यावदुदात्तदिवाकरम् । सपदि तावदिदं पिहितं वहूदितमहानसधूमचयैर्वियत् ॥ २१ ॥ विधिसुताम्भसि सस्नुरलं मलं दलयितुं बहिरेव चमूचराः । मुमुचुरान्तरमप्यहह स्पृहाधिकदमेव हि सुप्रभुसेवनम् ॥ २२ ॥ सुमधुरं शिशिरं रसयन्पयो जनचयो मनसा समचिन्तयत् । सरिति वारिधिवजलभूरितां कलशयोनिवदात्मनि शक्तिताम् ॥२३॥ तरलहस्तमहालहरीभरोच्छलितशीकररुद्धनमा ध्वनत् । तनुरुचैव तमांसि सृजन्धुनीमभिससार गजबजवारिधिः ॥ २४ ॥ प्रतिशरीरभृतः कति नो वनद्विपकपोलकषैर्मदगन्धिताः । श्रुतसरिल्लहरीध्वनितः क्रुधा मदकलः करटी विभिदे तटीः ॥ २५ ॥ पथिजखेदवशोऽपि करी तरुं प्रहतवान्वनदन्तिमदक्रुधा । अहह साहसिकस्य शिरस्यतः कुसुमवृष्टिरमुष्य दिवोऽपतत् ॥ २६ ॥ दलितमौक्तिककान्तिनि सैकते करिकुलस्य बभौ पदपद्धतिः। सुकृतसूनुयशःसमतार्थिनी शशिघटानुसृतेव सरस्वती ॥ २७ ॥ करिघटामवलोक्य घनभ्रमाद्भयभृतैरथवा गतिनिर्जितैः। सुकृतसूनुयशोजलपल्वलं वियदभाजि सरिद्वरटावरैः ॥ २८ ॥ विविशुरम्भसि भूधरडिम्भकाः स्फुरितपक्षतया हरिभीरवः । प्रचलकर्णदलद्विपमण्डलच्छलभृतो विगलन्मदनिझराः ॥ २९ ॥ १. 'रुदतारिषत प्रियाः' ग. २. 'नुमृतेव सरस्वतीम्' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy