SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७८ काव्यमाला। अथ विजित्य तनूषु चमूभृतां सपदि धर्मजवारिलवव्रजम् । प्रसृमरः पवनः म सरस्वतीजलकणप्रसरं प्रतितिष्ठति ॥ ४ ॥ नलिनरेणुलवैः कनकद्युतिः समरसौरभषट्पदगीतिभाक् । मधुरशीतगुणाम्बुकणैः सरिन्मरुदभूद्दयितो बलयोषिताम् ॥ ५ ॥ अपि सरित्परिरम्भभवं नवोदकलवं परिरभ्य समीरणम् । अननि मीलितदृग्यदियं चमूस्तदबला खलु कामितकामिनी ॥ ६ ॥ मृदुसमीरविलासविकम्पिनी कुसुमसात्त्विकवारिकणैर्वृताम् । अभजदाशु रसेन सरस्वतीतटवनीमवनीशचमूचयः ॥ ७ ॥ जलनिधौ निहितो वडवानलः पविमचिक्षिपदेव मदाय नः । इति विरञ्चिसुतां परितो बलच्छलकुलाद्रिकुलानि सिषेविरे ॥ ८ ॥ अविदितोद्धतिरोपणकं नृपैः कथमपि धुपथेन किलागतम् । समवलोकि यथाक्रमरोपितं कुतुकिभिः स्थलमण्डलमग्रतः ॥ ९॥ सुकृतसूनुनिकेतचलद्भुजाञ्चलभुजाकथितेष्विव वेश्मसु । विनिहितेषु यथाक्रममक्रमान्निननिजेषु ययुर्जगतीभुजः ॥ १० ॥ कमपि सारथिरात्मनृपालयं पथिषु पृच्छति यावदधिभ्रमः । निजगृहाङ्गणमेव रथो हयैः सपदि तावदनायि गतभ्रमैः ॥ ११ ॥ गजतुरङ्गनरत्रयपीठिकावलयिमूलभुवः स्थलसंचयाः । रुरुचिरे परितो नृपसेविताः सुरगृहा इव दिग्विजयश्रियाम् ॥ १२ ॥ शिरसि ताडकृतोऽपि निषादिनः समधिरोपयति स यथा नमन् । इह तथैव रयाद्रुदतीतरत्करिपतिर्महतां चरितं नुमः ॥ १३ ॥ स्फुरितमाप सपल्ययतो हयः पथि यथा न निरस्तभरस्तथा । सहजसौम्यभृतो हि पराक्रमे सति महांसि वहन्ति मनखिनः ॥ १४ ॥ स्थिरपदा निजसारथिसंज्ञया रथिनि पार्श्वगते रथवाजिनः । गहमहीगमनेऽप्यखिदस्तथा प्रथमयुक्तमिव स्वमबोधिषुः ॥ १५ ॥ फलं वेरोहति यन्त्रभरे यथा रवभरं रवणा विधुरं व्यधुः । मयस्तु गिपि हन्त तथैव ते व मतिरूव॑मुखस्य खलूचिता ॥ १६ ॥ १. 'शिवदाय' व क-ख. २. 'समवरोपितयन्त्र' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy