SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ५उद्योगपर्व-४सर्गः] . बालभारतम् । २७७ हयोच्चयोद्भूतरजःपरम्पराविलुप्तवैषम्यसुखाधिरोहणाः। पथि प्रथीयःस्थललीलया रयालाबलीभिर्गिरयो ललचिरे ॥ ८२ ॥ विलङ्घय कुल्याममुकां पुरेऽमुके क्रमेण गन्तव्यमिति श्रुते पथि । पुरः पुराण्येव बलैनिंदध्यिरे न सिन्धवो धूलिततिस्थलीकृताः ॥ ८३॥ पुरामुपान्तेषु तुरंगमक्रमप्रपातखातेषु निखातसंपदः । चमूचरैश्चञ्चलया लुलोकिरे दृशा रजोदर्शननिर्विशेषया ॥ ८४ ॥ पुरः स्त्रिया सैन्यलसदृशा रसाधुवा निषादी सकटाक्षमीक्षितः । व्यधात्परीरम्भमिभेन्द्रकुम्भयोः स तद्गताक्षः पुलकान्यधत्त सा॥ ८५ ॥ युवा तुरङ्गी लसदङ्गचङ्गिमा तुरङ्गमं चारुगतानि कारयन् । पुरः पुरस्त्रीभिरदर्शि सस्पृहं परस्परेाकलुषेण चेतसा ॥ ८६ ॥ उदारशृङ्गारभृतां पदे पदे विलोकिनीनां पुरयोषितां पुरः । समुन्नतोपाङ्गविनम्रलोचनो मिथः स्खलन्मन्दपदं ययौ जनः ॥ ८७ ॥ इति ग्रामारण्यक्षितिधरसरित्पत्तनतती_ विलय प्रस्थानैः कतिभिरपि धर्मस्य तनयः । स्वयं स्थाने स्थाने मिलदतुलवीरोग्रकटकः कुरुक्षेत्रोपान्ते द्रुहिणदुहितुस्तीरमगमत् ॥ ८८ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के उद्योगपर्वणि प्रयाणवर्णनो नाम तृतीयः सर्गः । चतुर्थः सर्गः। अमृतवृष्टिरिवाजनि हृष्टिदा जगति यस्य पुराणपरम्परा । भवदवातिभिदे जलदद्युतिर्न किमिवास्तु स सत्यवतीसुतः ॥ १ ॥ लसदनेकपयोधबलप्रभा बहुलपत्ररथा पृथुवाहभृत् । अथ चमूः क्षितिपस्य सरस्वतीमनुससार निवासविधित्सया ॥ २ ॥ गतिजितः पवनो निजकिंकरीकृत इवाम्बुलवाम्बुजगन्धभृत् । . अभिचमूं प्रहितः सरिता तया सुकृतनन्दनसत्कृतकर्मणे ॥ ३ ॥ १. 'न दध्यिरे' ख. २. 'तायां गवि नम्र' ख-ग. ३. 'चटुल' क. ४. 'सहिता' ख. ५. 'कर्मणि' क-ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy