SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७६ काव्यमाला। विलङ्घय लची त्वरया रथोच्चयं गतोऽग्रतोऽस्मीत्ययमुद्धरो मदात् । पुरः करित्रासवलन्मयद्वयः सहाससां राविणमीक्षितो बलैः ॥ ६९ ॥ अवेक्ष्य मार्ग शकटातिसङ्कटं रथी पथीह स्थपुटे प्रयात्ययम् । परिस्फुरच्चक्रविलोलवल्लभा मुहुः परिष्वङ्गसुखाभिलाषुकः ॥ ७० ॥ अयं दवीयःपदवीगतामिभीमिभभ्रमात्तूर्णमुपेत्य कोपनः । अमुं विनिश्चित्य ततः स्पृशत्यहो मुहुर्महेभस्ततहस्तलीलया ॥ ७१ ॥ अवाप्तजन्मा जननीवधादसौ ततः कृतोचैर्बहुभारवाहकः । शुचा खराश्चौ निजपूर्वपक्षको निरीक्ष्य तुल्यध्वनि रौति वेसरः ॥७२॥ इति प्रसत्तिप्रसराईया चमू दृशाभिषिञ्चन्निव धर्मनन्दनः । पदे पदे संमिलितैः कुतूहलादालोकि लोकैः शतधापि वीक्षितः॥७३ ॥ द्विपेन्द्रदानोदकनिझरच्छटाभिषेकसान्द्रोभयपक्षधान्यया । अचल्यत ग्रामतटेषु सेनया निरन्तरक्षेत्रविसङ्कटे पथि ॥ ७४ ॥ अमी महान्तः किरयो बृहत्तराः मृगास्तथैते प्रसभेन रक्षितुम् । अहो व शक्या इति भीतविस्मितैगजाश्वमालोक्य तव प्रगोपकैः ॥ ७॥ अपि श्रियां भूमिरभूषितोज्ज्वला विलोकयशालिषु गोपबालिकाः । खकामकेलीविशदाय केशवो न शैशवाय स्पृहयांबभूव किम् ॥ ७६ ॥ इदं किमेतत्किमिति स्त्रियां तथा शिशौ मुहुः पृच्छति दन्तिवाजिकम् । कृतोऽक्षमूल्याकुलितः किलाविदन्ददौ जरद्रामटिकोऽपि नोत्तरम् ७७ इतीक्ष्यमाणः क्षणकौतुकोल्लसद्विलोचनै मनिवासिभिर्नेनैः । चमूचयः काननभूषु भूषणी बभूव विस्तारमहीदिदृक्षया ॥ ७८ ॥ पुरः शिशूनां गललम्बिनां कपिस्त्रियः परिभ्रम्य तृणं यदत्यजन् । तदङ्गनानां कटकौचितीभृतामपुत्रिणीनां हृदि शल्यतामधात् ॥ ७९ ॥ सुखं गतायाः शयनं सुलम्पटा विघट्य सिंह्याः स्तनतः स्तनंधयाः । गजेष्वधावंश्च मुहुर्भटाभकैर्मुदा व्यमुच्यन्त च मातुरन्तिके ॥ ८ ॥ फलं करेणाप्तुमना मुहुर्मयं निनाय चूतं रवणाधिरोहणः । मयस्तु निम्बाय मुहुर्गतः कुतः क्रियैक्यमन्योन्यमनोभिलाषयोः॥ ८१॥ १. 'शिवदाय' ख. २ अक्षमूली ग्रामे व्यवहारनिर्णायकः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy