SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७४ काव्यमाला । परः समीरत्वरया समीरयन्हयान्नियन्ता जितवांश्च वाजिनः । ररक्ष चासन्नलता शिखाततेः पतिं चलत्पाजनवेगलीलया ॥ ४३ ॥ चरिष्णुचक्रारगृहीतचीवरप्रपातिनः कृष्टतनोर्ध्वनि प्रभोः। उदारचीत्कारभरैरकर्यन्नबोधि कोऽप्यन्यजनेन सारथिः ॥ ४४ ॥ महारथौ कौचन कोपहुंकृतिप्रणादरौद्रौ रथसंकटे पथि । युधे घृतासी चटुलौ चटूक्तिभिः प्रविश्य मध्यं प्रभुरप्यवारयत् ॥४५॥ पुरः प्रचेलुश्चतुरं तुरंगमत्वरापरिभ्रान्तपदाः पदातयः । रथा इवोच्चैर्भुजदण्डमण्डलीभवत्पताकायितखड्गवल्लयः ॥ ४६ ॥ समुत्पतन्तोऽधिकमुच्चकैः समुल्लसत्कृपाणयुतिहृद्यपाणयः । बभुर्भटाः स्वप्रभुकीर्तिविस्तृतिप्रवृत्तये कृत्तविपल्लवा इव ॥ ४७ ॥ विचित्रचारीषु सवर्वरं स्फुरत्स्फुटस्वनाशून्यभिदोऽसिलेखया। मुहुर्नदन्तो मदविभ्रमादनीगणंस्तृणाभं त्रिनगत्पदातयः ॥ ४८ ॥ भयं दधानो हृदि विष्टपत्रयव्ययप्रगल्भोऽपि लुलायलाञ्छनः । रणे सहायी भवितुं भुजाभृतामसिच्छलो दक्षिणपाणिमग्रहीत् ॥ ४९॥ स्फरापदेशात्कलितैककुण्डलो विनीलवासाः कटिशस्त्रिकांशुभिः । अनन्ततां पत्तिचयो ययावसिच्छलेन कर्षन्यमुनां समन्ततः ।। ५० ॥ उदस्य कोऽप्याशु समं मुहुर्मुहुः करेण वामेन च दक्षिणेन च । स्फरं च खड्गं च दधद्विपर्ययान्महत्त्वमभ्यासकृतां कृती ललौ ॥ ११ ॥ उपेत्य पश्चान्मृततातवृत्तिकः कृताद्भुतध्यानपरेण कौतुकात् । परेण बालः सहसापि तापितश्चलन्धृतासिन भटानतत्रपत् ॥ ५२ ॥ उदस्य कुन्तं दिवि कोऽपि लीलया सकौतुकैः सैन्यजनैविलोकितः। क्षितेः समुत्पत्य रयेण पाणिना तमूर्ध्वमेव प्रसरन्तमग्रहीत् ॥ १३ ॥ जनौघमाक्षिप्य पुरश्चरं भटः स्फुटं परिक्षिप्य रयेण कुन्तकम् । परेण निर्मुक्तमिवाग्रतो गतः करेऽग्रहीत्कश्चन वञ्चयन्मुखम् ॥ १४ ॥ इति स्फुरत्कृत्स्नचमूसमुत्थितै रजोभिराच्छादितभानुभानुभिः । कृतप्रयाणे जयभाजि राजनि व्यराजदेकातपवारणं जगत् ॥ ५५ ॥ १. 'क्षमः' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy