________________
५उद्योगपर्व-३सर्गः] बालभारतम् ।
२७३ हरिः परिस्पर्धिनि वर्धितोद्यमस्तुरंगमे धावति वेगदुर्धरः। अदृष्टमूर्ध्व पुरुषं परः परो व्यलङ्घतापीडितमेव फालया ॥ ३० ॥ परो हरिः कूपमपहृतं तृणैरलङ्घयमुल्लङ्घय विशालफालया। व्यथां न लेभे कशयापि ताडितो हृदि स्तुवन्धैर्यगुणं तुरङ्गिणः ॥३१॥ उदश्चितैकक्रमलीलया त्रिभिः पदैस्तथा कोऽपि हतो गतिं व्यधात् । यथाभवच्चेतसि चित्रकारिणामपि क्षणं चित्रकृतौ चमत्कृतिः ॥ ३२ ॥ समं मया धावथ यूयमित्यहो भृशं दृशः कौतुकिनां विलोकिनाम् । विलुप्य पश्चात्पदधूतधूलिभिहरिः परोऽधावत वातजित्वरः ॥ ३३ ॥ हरिनिषिद्धोऽप्यपराश्वतर्जितस्त्वराममुञ्चन्न हि यः स तस्थिवान् । प्रेपातिनः पादकरान्तरस्फुरत्पदस्य पीडां निजसादिनोऽदधत् ॥ ३४ ॥ विवर्धितस्पर्धमहो महोनिधी समं चलन्तौ त्वरया परौ हरी । पताकिनीलोलदृशो दृशोभृशं समानतामापतुरग्रतो गतौ ॥ ३५ ॥ जितेऽपि वेगादितरे तुरंगमे न कोऽपि तत्यान रयं स्वयं हयः । निनं तनुच्छायमवेक्ष्य च क्षितौ निशम्य पादध्वनितं च दुर्धरः ॥३६॥ हयाद्रिकुट्टालशतक्षतस्थलोच्छलद्रजः पूर्णनतेषु वर्त्मसु । अलब्धनेमिस्खलना मनागपि प्रसनुरश्रान्ततुरंगमं रथाः ॥ ३७ ॥ रथाङ्गरेखानिवहैर्महीं रथा विभूषयन्तो नवहारहारिभिः । दिशां दिशन्तस्तिलकानिव ध्वजाञ्चलैः किलातन्वत कामचारिताम् ३८ क्षुरप्रबाणेन विभिद्य दूरतः पतन्ति पक्कानि फलानि भूरुहाम् । अधोगतः कोऽपि रथाश्ववेगतो रथी करेणैव सहेलमग्रहीत् ॥ ३९ ॥ परो रथं सारथिरन्यसारथेजिंगाय संतय॑ धुरीणवाजिनः । जवेन योक्रे छुटितेऽपि धीधनोऽधिरुह्य वंशान्नितरामदुद्रुवत् ॥ ४० ॥ च्युतेऽपि चक्रे चिरमेकपक्षतस्तदक्षमुत्तार्य करेण धारयन् । मरुत्त्वरांहिस्त्वरयन्रथे हयाञ्जिगाय यन्तापरसारथिं परः ॥ ४१ ॥ महाबलः कश्चन सारथिः पथि स्थितेषु खिन्नेषु निजेषु वाजिषु ।। जवेन यान्तं प्रतिवादिनो रथं करेण धृत्वैव हठादतिष्ठिपत् ॥ ४२ ॥ १. 'अनष्ट' क. २. 'प्रतापिनः' ग; 'प्रयातिनः' क-ख.
३५