________________
५उद्योगपर्व-२सर्गः] बालभारतम् ।
२६७ उत्तरार्थहृतमौलिचीवरो मौलिजालमहरन्दयाभरात् । . . कां चमूमरचयच्चमूभृतां गोग्रहे स विजयी जयाय वः ॥ ४ ४ ॥ पश्यतां निजभुजाभृतां कृपद्रोणतत्तनयकर्णभूभुजाम् । त्वां बलादिवि हृतं व्यमोचयेत्फाल्गुने तदपि विस्मृतं तव ॥ ४५ ॥ यस्तु दुष्टजनपुष्टसंनिधिः साधुबन्धुवचनेषु रोषणः । स ध्रुवं त्वमिव दुश्चरित्रधीः क्रोधनेन विधिना कटाक्षितः ॥ ४६ ॥ यद्विदुः प्रकृतितो विपर्ययं मृत्युसीम्नि तदसत्यमेव ते । आ जनुःप्रकृति दुष्ट साधुतां नाधुनापि मृतिदृष्ट पयधाः ॥ ४७ ॥ ते त्वया समधिरोपिता पदं किं महत्तममवाप्नुमिच्छवः । ऊर्णनाभमुखलालया लतारोहधीः क इव काङ्क्षति ग्रहम् ॥ ४८ ॥ किं च नीचगति वारि तत्पतेः श्रीरपत्यमधिगम्य तां जडः ।। द्रागधो जिगमिषुर्महोन्नतेः कोपि रोपयतु बान्धवान्पंदे ॥ ४९ ॥ निर्मलोऽपि मलिनीभवञ्जलैरुन्नतो भजति वैरितां निजे । धूमयोनिरिह धूमकेतनग्लानिदर्शितरसो निदर्शनम् ॥ ५० ॥ अप्रणाशितकुलं न शाम्यति स्वैः सह ध्रुवममर्षजं महः । वेणुयुग्मघनघट्टजः शिखी सर्वतोऽपि विपिनं दहत्यहो ।। ५१ ॥ तन्मुधा दधति संधये धियं मादृशा इह भवादृशे मुहुः । अत्तु वः सकलमप्यदः कुलं भीमदोविटपिभोगिनी गदा ॥ १२ ॥ इत्युदारतरभारतीभरे कैटभद्विषि तदा बभौ सभा। कोपतः कपिशदीधितिमृतिस्त्रीकटाक्षचयचुम्बितेव सा ॥ १३ ॥ क्रूरकोपकपिशः परिज्वलन्कौरवप्रभुमुखप्रभाकरः। भूपरिभ्रमणनिर्भरो बभौ क्षीबगाण्डिव इवाशुशुक्षिणिः ॥ १४ ॥ उरुमाहत तथा सुयोधनः क्रोधनः करतलेन नादिना । तयशङ्कत यथा विभुः स्वयं भीमसेनगदयाथ भङ्गुराम् ॥ ५५ ॥
खौ भुजावधित कोपकण्टकत्रुट्यदङ्गदसमुच्छलन्मणी । दुःसहोष्मदहनस्फुलिङ्गकस्फूर्जिताविव सुयोधनानुजः ॥ ५६ ॥ १. 'हरद्दया' ख-ग. २. 'क्वापि रोपयतु' क-ग. ३. 'पदम्' ख.