________________
२६८
काव्यमाला ।
कोपवानवतरः स्मरद्विषस्तं स्मरस्य पितरं पुरः स्मरन् । आदधे' किल दृशं भृशं कृपीयोनिरुल्बणकृपीटयोनिकाम् ॥ १७ ॥ विस्फुलिङ्गपटलीं मुखान्मिथः कोपपिष्टरदराजितां क्षिपन् । इन्दुतो दहनवृष्ट्यमङ्गलं संसदि व्यधित कर्णनन्दनः ॥ ९८ ॥ इत्यलोक्यत कुतूहलोल्लसल्लोचनेन दनुनन्दनद्विषा । रोषरूक्षरवसंभ्रमभ्रमद्भूरिभूरमणरासभा सभा ॥ १९ ॥ स्वग्रहार्थमथ कौरवाग्रजं पाशपाणिमतिकोपिनं पुरः । प्रेक्ष्य सात्यकि निवेदितं तदा दिव्यरूपमधित क्रुधा विभुः ॥ ६० ॥ नौभिभागगतपद्मभूविभाभारभासुरनभाः समाचरैः । मस्तकोपगतकोपपावकज्वाल इत्यपमशङ्कि शङ्किभिः ॥ ६१ ॥ हृद्विहारिहरहारहारिणा भीषणः फणभृतां गणेन सः । बाहुदण्डनिवहानहो बहूकुर्वता क्षणबहूकृतानपि ॥ ६२ ॥ अस्त्र मुलसद भी शुभीषणं दोष्णि दोष्ण सदधौ नवं नवम् । मारिभिर्नवनवाभिरेकको हन्तुकाम इव वैरिणः क्षणात् ॥ ६३ ॥ क्रूरकौरवचमूविमूलन स्फीतदुःसहमहः प्लुतानि च । वृष्णिपार्थनिवहान्मुहुर्मुखादक्षिपत्सहचराशुशुक्षणीन् ॥ ६४ ॥ व्यात्तवत्रपटुकण्ठकन्दरस्पष्टदृष्टजठरत्रिविष्टपम् । तं निरीक्ष्य भयभीतचक्षुषः कौरवा विधुरमारवं व्यधुः ॥ ६५ ॥ द्रोणभीष्मविदुरर्षिसंजयैरेव हर्षिभिरसौ निरीक्षितः । द्वागमर्षशमनाय नाकिभिर्नाकनायक मुखैरिति स्तुतः ॥ ६६ ॥ उद्गतस्त्वदुदराद्विरञ्चनस्तत्सुता च वचसामधीश्वरी । तत्प्रसादलवको विदाकृतिर्वेत्तु वास्तवमपि स्तवं क्व ते ॥ ६७ ॥ गर्भितत्रिभुवनोऽपि वा यथा नाथ संवससि नो मनोऽणुषु । त्वं प्रसीदसि तथैव चेद्वचो गोचरीभवसि तन्मुदा नुमः ॥ ६८ ॥
१. 'घेलिकदृशं' ग. २ 'मुखाग्रतः ' ख ३. 'नुजं' क. ४. 'भालभाग' ख-ग. ५. 'ज्वालयन्नयमशङ्कि' ख-ग. ६. 'नाकिभिः' ख ७. 'कोविदा ते वेत्तु' क; 'कोविदाः कृते विदा' ख. ८. 'स्तवं कुतः ' क; ' स्तवः कुतः' ख.