SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६६ ५. काव्यमाला | २ प्राक्चरित्रनिचयैर्निबोधितो नारदादिभिरपि द्रुतागतैः । ऊचिवानेथ हरि प्रति क्रुधारब्धबोधनिधनः सुयोधनः ॥ ३२ ॥ सौहृदेन जयिनश्चहि किं दैत्यबन्धन दधासि संघये । तान्महाप्रहरणान्रणावनीसीम्नि सज्जय लसज्जयश्रियः ॥ ३३ ॥ याच्यतेऽवनिलवोऽद्य धीधनैरेभिरूढदृढ गूढमत्सरैः । तत्र रोपितपदा हि मच्चमूदाहि सैन्यमतिमेलयन्ति ते ॥ ३४ ॥ अद्य बान्धवमिषाद्विषः कथं तान्महत्त्वमधिरोपये पुनः । मृत्युदानपरमङ्गसंगतं कः प्रवर्धयति रोगमात्मनः ॥ ३५ ॥ एवमालपति कौरवे रवेः साम्यमिन्दुमपि लौचनं नयन् । भारतीमभज दुल्लसद्भुजः क्रोधनः क्रमकटुं त्रिविक्रमः ॥ ३६ ॥ ऐन्द्रिरेव परमः सुहृन्मम त्यज्यते स्वमपि यत्कृते मया । सान्द्रमैन्द्रमपि तस्य निष्फलं यस्य न स्फुरति तादृशः सुहृत् ॥ ३७ ॥ सङ्गतोऽङ्गसुहृदां सुधा मुधेत्यादिशन्ति हृदयालवः सदा । यं रसाद्व्रसयतां मनीषिणां न प्रियाधररसेऽपि हि स्पृहा ॥ ३८ ॥ नो सुहृत्परिचयात्परं क्वचित्किचिदस्त्यमृतमित्यहं ब्रुवे । यन्निपानघटमानहृष्टयो दृष्टयो दधति निर्निमेषताम् ॥ ३९ ॥ इत्थमिन्द्रसुतसौहृदादहं किं करोमि न विना चॅटूक्तिभिः | पूर्वकर्मवशगे शुभाशुभे चाटुकर्म कुरुते न कोविदः ॥ ४० ॥ युष्मदर्थमयमर्थितो मया संधिरस्तु यदि धीर्युधीप्सिता । . भीमदोष्णि निहितैव तद्विषां कालरात्रिरिव सर्वदा गदा ॥ ४१ ॥ अस्तु पाण्डुतनुजन्मनां पुनः को विरोधिषु भवत्सु मत्सरः । मौलिदत्तचरणासु केसरी मक्षिकासु न कदापि कुप्यति ॥ ४२ ॥ कोऽभवत्परिभवाय पाण्डवैः सैनिकव्यतिकरः करिष्यते । वल्गदेणगणवर्गखॆर्वणे सैन्यमानयति केसरी कियत् ॥ ४३ ॥ २. 'मिषाद्विषः ' ख. ३. 'नायनं' ख- ग. ४. 'त्वदुक्ति' ग. १. 'निति' क. 'चर्वणे' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy