________________
५उद्योगपर्व-२सर्गः] बालभारतम् ।
देहिनामहह लोमतः परः कश्चिदस्ति न परो भुवस्तले । आगमय्य निजपक्षतां क्षणाद्यो विपक्षयति बान्धवानपि ॥ १९ ॥ तद्वयं क्षितिभृतो भुजाभृतामालिभिः परिवृता इति स्मयात् । लोमतोऽवनिलवस्य विग्रहे माग्रहोऽस्तु जयसंशये निजैः ॥ २० ॥ व्योममार्गभृदनेकमार्गणेष्वेकमार्गणवशं विरोधिषु ।। एकमेव गणयन्ति को विदा भूरिभिर्वृतमपि स्वमाहवे ॥ २१ ॥ नैकमप्यरिमनन्तपत्तयोऽप्याहवेऽवगणयन्ति धीधनाः । सत्सु तारकगणेषु राहुणा ग्रस्यते किमु न तारकाधिपः ॥ २२ ॥ आधिपत्यमपि न स्थिरं भुवः सुस्थिरं च यदि जीवितावधि । जीवितं च रणकारिणां नृणां चापमुक्तशरतुल्यचापलम् ॥ २३ ॥ तन्मृधाय बत मा विधा धियं बन्धुभिः सममिला विलस्यताम् । धाम्नि भोज्यसमये समागतान्भोजयन्ति कृतिनो रिपूनपि ॥ २४ ॥ बन्धुवर्गमवधूय निष्ठुरो यो बलिं गिलति भूतलेऽन्धधीः । नित्यमुद्धरशिरोधरैर्मदादेकदृम्भिरपि स प्रहस्यते ॥ २५॥ . हस्यमानवचसः पदे पदे बालिशैरपि पराङ्मुखश्रियः । क्ष्मामटन्ति निजपक्षविद्विषः पण्डिता इव न पण्डिता नृपाः ॥ २६ ॥ यः स्वबान्धवगणस्य पृष्ठगो भोगकर्मणि रणोत्सवेऽग्रगः । तं वियोगलवकातरा धरा सेवते सुचरितं पतिव्रता ॥ २७ ॥ यो धुनाति निजबन्धुतां निजस्तस्य कोऽस्तु पर एव यः परः। . क्वापि यान्त्वमलपक्षिणो जले शैवलं शिति सहैव शुष्यति ॥ २८ ॥ ये तु बन्धुपरिरम्भसंभवप्रीतयो धनलवात्तसंमदाः।। ते हतेन्दुरैवयो वयोमणीद्योतिनोऽतिमलिना घना इव ॥ २९ ॥ बन्धुनातिकटुनापि संगमः संमदं सृजति यं न तं सुधा । यत्सुधाकरकरेषु सत्सु न प्रीयतेऽस्तभृति भास्करेऽम्बुजम् ॥ ३० ॥ तेन बन्धुषु निजेषु संधये ढौक्यतां किमपि पञ्चकं पुराम् । सर्वथापि विषयेऽत्र वो हिते सोऽहमप्युपरुणध्मि मध्यमः ॥ ३१ ॥ १. 'तु' ख-ग. २. 'खण्डिता' ग. ३. 'रुचयो' क.