SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६४ काव्यमाला। विक्रमैर्निरुपमान्निरूपयन्भूपकुञ्जरचयानवज्ञया । सानुसिंह इव सिंहविष्टरं विष्टपप्रभुरभूषयत्ततः ॥ ७ ॥ माधवः सह महामहीधवैः संहतैरवहितेऽम्बिकासुते। पाण्डवीयकमुवाच वाचिकं वाचि कंचिदमृतद्रवं किरन् ॥ ८॥ के न पूर्वमभवन्भुवो धवा मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यधृत नागभर्तरि भ्रंशभाजि दधती नवं नवम् ॥ ९॥ नैतया कति पतित्वधारिणो मारिता बत परेषु सक्तया । रागिणो गुणनिधीन्यदृच्छया जीवतोऽपि कति नेयमत्यगात् ॥ १० ॥ एतदर्थमपि यः कदर्थयत्यर्थवादकणधी रिपूनपि । श्लाघ्यते न खलु सोऽपि यः पुनः कूल्यमस्यति नमस्य एव सः ॥११॥ वैभवेऽपि भुवनस्य भोग्यतामेति तल्पमितमेव भूतलम् । श्रीभरेऽपि सति भोग्यतोऽधिकं स्वस्य किंचिदपि नोपकारकम् ॥१२॥ वैभवैभवति भोगतोऽधिकं संमदो यदि ममत्वमात्रतः । क्ष्मा ममेयमखिलाप्यदो वदन्प्रीयते च तदकिंचनोऽपि किम् ॥ १३ ॥ मन्मुखादिति तपःसुतो नृपस्त्वां प्रणम्य परिरभ्य बान्धवान् । भोगमात्रफलमात्मपञ्चमो ग्रामपञ्चकमयाचत स्वयम् ॥ १४ ॥ तद्धनीवनबिलागसागरै रुद्धमस्ति न कियद्धरातलम् । भूलवोऽयमपि तद्वदुच्यतां मुच्यतां सह कुलेन विग्रहः ॥ १५ ॥ विग्रहः सह कुलेन नौचिती यात्यरातिकुलकल्पपादपः । कश्चिरं रणभरेण सिंहयोः प्रीतिमेति न वने वनेचरः ॥ १६ ॥ गोत्रजः सहजशत्रुरित्यसौ नीतिरस्तु धनलोभदुर्धियाम् । वृद्धतुल्यलघुपुंवृतं जगद्धीधनस्य पितृमित्रपुत्रवत् ॥ १७ ॥ धारयन्ति धनलुब्धचेतसां बन्धवोऽपि निभृतं विरोधिताम् । लूनलोभमधुरस्य धीमतो बन्धुतां स्पृशति विश्वमप्यदः ॥ १८ ॥ १. 'लुब्धया' ख. २. इतोऽग्रे 'त्रिभिर्विशेषकम्' इत्यधिकं ख. ३. 'भोज्यतो' क-ख. ४. 'न' ख-ग. ५. 'वृद्धिकुल्य' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy