________________
२३९
४विराटपर्व-३सर्गः] बालभारतम् ।
आस्फालयंस्तदनु धन्वशिञ्जिनी टंकारभारमतनोत्तथार्जुनः । गावो यथा सपदि पुच्छदण्डिकामुद्यम्य मत्स्यपुरमायुरुत्सुकाः॥१०॥ व्यावृत्तिमीयुषि गवां गणे द्विषां सैन्येषु तेषु विशिखोत्करं क्षिपन् । तत्तत्प्रियापरिभवादिदुःख वर्षन्नमर्षमिव शक्रभूर्बभौ ॥ १०६ ।। एकेन मार्गणगणः किरीटिनां यावानमोचि पिहितार्कमण्डलः । तावान्न भूरिभिरपि द्विषां बलैर्भिन्नारिणा भृशमभिन्नशत्रुभिः॥१०७॥ लक्षाप्तिलालसतमानुपेयुषस्तीवागतीनपरमार्गणव्रजान् । दत्तार्घचन्द्रवशतः प्रतापयन्कि वर्ण्यते वकुलमौलिरर्जुनः ॥ १०८ ॥ नाश्वःस कोऽपि न स कोऽपि वारणो वीरःसकोऽपि न रथः स कोऽपि न। तेषांस कोऽप्यवयवोऽस्ति न द्विषां यत्रार्जुनस्य न शरा व्यधुळथाम् १०९ एकोऽपि सिंह इव केतुकैतवव्यालोलपुच्छवलयो महायतिः । आसीद्धनंजयरथस्तदा द्विषद्भूपालकुञ्जरमदैकशोषकृत् ॥ ११० ॥ साटोपरत्नमुकुटोरुमण्डलं लोलभ्रु भीषणकनीनिकेक्षणम् । आवेशदष्टदशनच्छदं शरैः शत्रुतपस्य मुखमैन्द्रिरच्छिदत् ॥ १११ ॥ कौन्तेयकुन्तगणरुग्णविग्रहः संग्रामनिन्निपतितो विवस्वता । मत्पुत्रकर्णपितृभूतसूतसूरित्यस्तशङ्कमयमङ्कगः कृतः ॥ ११२ ॥ तस्या विदग्धपृतनामृगीदृशः कर्णेऽवतंसनवपद्मवद्यशः । भीमानुजन्मकरपङ्कजोत्थितैस्तेने सितेतरतरं शिलीमुखैः ॥ ११३ ॥ शारद्वतोऽपि गुरुरिन्द्रनन्दने शिष्ये पुरः स्फुरति संगराङ्गणे। तत्संगमेच्छुरपि नो जयश्रिया संश्लिष्यते स्म किल सज्जलज्जया ११४ प्रौढप्रतापरविनाशतस्तमस्तोमे प्रसर्पति विरोधिना धुतः । द्रोणो मलीमसतमाकृतिः क्षणादुड्डीनपक्षततिरातनोतु किम् ॥ ११५ ॥ युद्धाङ्गणे गुणनिबन्धतः क्षणादत्रस्यतो मरणमेव काश्तः । चक्रे धनुर्धरधुरंधरोऽङ्गजं द्रोणस्य लोचनमिवैकमाकुलम् ॥ ११६ ॥ सेनासरोरुहदृशो विभूषणं गाङ्गेयमुत्कटमहाग्निनिर्मलम् । पार्थेन पौरुषमणौ हृते तदा विच्छायमेव जनता व्यलोकत ॥ ११७ ॥ १. 'मुत्पाद्य' ख-ग.