SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३८ काव्यमाला। नैवं भवेदिति गिरं तमब्रवीदेवं विरुद्धमवबुध्य सिन्धुभूः । यत्ता भवन्तु सुभटा घटामहे येनामुना समिति सव्यसाचिना ॥ ९२ ॥ किं तु व्रजन्तु नगराय गोव्रजाः क्षोणीशसैन्यचतुरङ्गरक्षिताः। पूर्व हि विग्रहनिमित्तवस्तुनः शंसन्ति रक्षणविधि विचक्षणाः ॥ ९३ ॥ अन्येन गच्छतु वृतश्चमूचतुर्भागेन नागनगरं नरेश्वरः। येनैष एव विजयो रणक्षणे यत्स्वामिरक्षणविधिर्यथा तथा ॥ ९४ ॥ द्रोणादिभिस्तु सुभटैर्युतोऽर्जुनं क्ष्माभृद्भुनीरयमिवैष धारये । इत्युक्तवत्यथ पितामहे तथा चक्रे भयातुरतया नृपो रयात् ॥ ९५ ॥ वेगाह्रजन्तमथ तं पृथङ्गरः प्रेक्ष्योत्तरं प्रहसितोत्तरं जगौ । संगृह्य याति सुरभीः सभीरसौ यातेऽत्र मेऽत्र समरेण किं फलम् ॥१६॥ एनं प्रति त्वरयतूतुरंगमान्दूरं कुरङ्ग इव मापलापताम् । श्रुत्वेत्यथ त्वरितमुत्तरो रिपुं पक्षान्वितैरिव हयैरुपाद्रवत् ॥ ९७ ॥ प्राप्तोऽथ सत्वरखुरैस्तुरंगमैवेगेन संगतिमुपागते रथे । ते तत्र सन्तमिदमब्रवीदथो दुर्योधनं हठधनो धनंजयः ॥ ९८ ॥ भोस्तिष्ठ तिष्ठ निभृतं भवादृशैः कुल्यैः कलङ्कविधुरः कृतो विधुः । पूर्व जहार सुरभीर्भवान्हहा रुद्धो मयाधम पलायतेऽधुना ॥ ९९ ॥ चापं गृहाण विगृहाण विग्रहिन्साकं मया समय एष दुर्लभः । एकोऽस्मि संगरनियुक्त संगरो यूयं पुनः शतमितो धनुर्धराः ॥१०॥ निर्भर्त्सकैरिति गिरां भरै रयादुत्साहकैरपि तदा कुरूद्वहः । युद्धाय नैव वलते स्म तत्क्रुधा पार्थो रथस्य रयतो गतोऽग्रतः ।।१०१॥ वामे विमुच्य पृतनामभिद्रुतं दुर्योधनाय विनिभाल्य फाल्गुनम् । भीष्मादिभिः सपदि पर्यवारितैावर्तितत्वरितवाहनैर्नृपः ॥ १०२॥ एकत्र तत्र मिलितां पताकिनी दृष्ट्वा प्रहृष्टहृदयो धनंजयः । आकम्पितञ्जभितदेवदानवं द्वाग्देवदत्तमथ पर्यपूरयत् ॥ १०३ ॥ ध्वानैर्ध्वजे कपिवरस्य तत्परीवारप्रभूततरभूतबूत्कृतैः । तैर्देवदत्तनिनदैश्च विस्फुटब्रह्माण्डमण्डलमशङ्कि विष्टपैः ॥ १०४ ॥ १. 'नूनं' क. २. 'भो तिष्ठ' क-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy