________________
४ विराटपर्व - ३ सर्गः ]
बालभारतम् ।
२३७
बीभत्सु फाल्गुन किरीटिजिष्णवः कृष्णार्जुनौ विजयसव्यसाचिनौ । विश्वे धनंजयवलक्षवाहनावित्याह्वयान्दश दिशन्त्यहो मम ॥ ७९ ॥ धैर्य भजस्व विनयस्व वाजिनः पश्यार्दितां कुरुचमूं शरैर्मम । इत्युक्तिभाजि विजये रथाश्रये हृष्टो हयान्नृपतिभूरथैरयत् ॥ ८० ॥ साकं ततोऽनुगतभूतपङ्किभिः केतौ निकेतमकरोत्कपीश्वरः । यस्यांशुभिर्जययशःश्रियो वियद्वैडूर्यपुण्ड्रमरुणार्करत्नयुक् ॥ ८१ ॥ दिक्कुम्भिनो निभृतकर्णतालतां शैलान्प्रतिध्वनित कुञ्जपुञ्जताम् । चक्षुःश्रुतीन्विधुरिताक्षतां नयन्शङ्कं ततो द्युपतिभूरपूरयत् ॥ ८२ ॥ आश्वास्य शङ्खनिनदेन मूर्छितं मत्स्यक्षितीन्द्रतनयं किरीटिना । दिव्यास्त्रदैवतततिं जितात्मना ध्यात्वाधिरोपितमनुद्धृतं धनुः ॥ ८३ ॥ विश्वे कुटुम्बयति कम्पमुत्कटैर्ज्याटंकृतिव्यतिकरैः किरीटिना । उद्यत्तदात्वकुनिमित्तकोटिभिर्भीतोऽभ्यभाषत गुरुः कुरूद्वहम् ॥ ८४ ॥ यत्कौरवप्रवर विष्टपान्तरे दृष्ट्राद्य माद्यति निमित्तमण्डली । तलक्षयामि भटलक्षमांसभुग्रक्षोगणभ्रमणभीषणं रणम् ॥ ८९ ॥ दुर्योधनप्रधनकेलिकौतुकी पार्थः स एष कपिकेतुरीक्ष्यते । कोपानले बहुलतिलया कक्षीकरिष्यति कुरूत्तमानसौ ॥ ८६ ॥ एते किरातरणकर्मसाक्षिणः क्षीवन्निवातकवचान्तकारिणः । दृप्यद्धिरण्यपुरदैत्यदारणाः प्रेङ्खन्ति नो क्षितिप पार्थमार्गणाः ॥ ८७ ॥ एतां गुरुक्तिमुपकर्ण्य कौरवोऽभाषिष्ट भीष्ममिति भूरिमन्युभूः । मत्स्याधिपेन सह विग्रहोऽद्य नः कस्मात्प्रहर्तुमयमेति फाल्गुनः ॥ ८८ ॥ विस्मृत्य संश्रवमुपैति चेत्ततः का नः क्षतिः स्फुरतु कानने पुनः । किं तूद्यते गुरुरयं स्वयं रणारम्भे प्रगल्भयति यो रिपुस्तुतिम् ॥ ८९ ॥ इत्थं प्रजल्पति नृपे नदीजनिः शृण्वञ्जगौ नरशरासनखनम् । कालो यथा नियमितः सहाधिकैर्मासैर्नरेश निरतारि पाण्डवैः ॥ ९० ॥ पार्थः स एष समितौ समुद्यतः प्रोद्भूतकेतुकपिभीषणो रवः । मन्यस्व संधिमधुनामुनाप्यहो भूयान्महोत्सवमयं जगत्रयम् ॥ ९१ ॥ १. 'दारुणाः' क. २. 'ते' ग.