________________
२१६
काव्यमाला।
मृत्युधीबन्धुदुःखेन कुललालनकाङ्कया । अथ भूपोऽभ्यधान्माद्रीपुत्रो जीवतु मत्प्रियः ॥ १३३॥ सोदर्यतोऽधिकप्रीतिं वैमात्रेयेऽथ पार्थिवम् । प्रीतः प्रत्यक्षतामेत्य धर्मो निर्मलगी गौ ॥ १३४ ॥ धर्मोऽस्म्यहं स्यपुस्य तवास्येन्दुत्विषा मयि । हतौ पाण्डव माण्डव्यशापतापतमश्चयौ ॥ १३५ ॥ अरणी हरिणीभूय मया त्वां वीक्षितुं हृता । सोदरेषु तथार्तेषु पिबन्तोऽम्बु हतास्त्वमी ॥ १३६ ॥ अनृशंस्यं स सत्त्वं च दृष्ट्वा तुष्टोऽस्मि तेऽधुना । अवाप्नुहि जयं धर्म्य जीवन्तु तव बान्धवाः ॥ १३७ ॥ वर्ष वस विराटेषु मत्प्रसादादलक्षितः । इत्युदीर्यारणी तां च दत्त्वा धर्मस्तिरोदधे ॥ १३८ ॥ सहोदरैः सहोत्थाय धर्मभूः स्वाश्रमं ययौ । ब्राह्मणायारणी तस्मै तज्जीवितमिवार्पयत् ॥ १३९ ॥ पूर्णी द्वादशवत्सरीमथ परिज्ञाय क्षमानायकः ___ साग्निं धौम्यमुदीर्य पार्षतपुरीवासाय वर्षावधि । किं च द्वारवतीपुराभिगमने तानिन्द्रसेनादिका
न्वीराशिक्षयति म कर्तुमुदितो गुप्तं विहारं क्वचित्॥१४०॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः __ पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। . तल्लीलागिरि बालभारतमहाकाव्ये तृतीयं मनोनिर्वेदव्ययमेदुरश्रि निरगात्पर्वेदमारण्यकम् ॥ १४१॥ सर्गेश्चतुर्भिरेतस्मिन्पर्वण्यारण्यकाह्वये ।
चतुःशतीसप्तषष्टिविशिष्टासीदनुष्टुभाम् ॥ १४२ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आरण्यके पर्वणि धर्मादेशो नाम चतुर्थः सर्गः ।
इत्यारण्यकपर्व समाप्तम् । १. 'सहोद्यद्भिः' ग. २. 'धर्मसूः' ग.