SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ४विराटपर्व-१सर्गः] बालभारतम् । २१७ विराटपर्व। प्रथमः सर्गः। कर्ता जगत्पापविषाहृतीनां स्तात्स श्रिये सत्यवतीसुतो वः । जगच्चमत्कारकमुज्जगार श्रीभारतं नाम सुधारसं यः ॥ १ ॥ पप्रच्छ पृथ्वीशमथो किरीटी कुर्वन्किरीटे करकुङ्मलाग्रम् । छन्नः प्रभो स्थास्यति कैः प्रकारैरिहाब्दभारैर्नभसीव भानुः ॥ २ ॥ द्विनं सभास्तारमवेहि धर्मसुतस्य मां कङ्क इति प्रतीतम् । इत्युक्तिभाक्संसदि मत्स्यभर्तुः स्थाताहमित्याह महीमहेन्द्रः ॥ ३॥ भीमोऽभ्यधादित्यथ बल्लवाख्यः सूदो भविष्यामि नृपस्य तस्य । जयो जगौ राजसुतागुरुत्वं नृत्ये गमिष्यामि बृहन्नडाख्यः ॥ ४ ॥ स्थास्यामि गोस्वामितयात्र तन्तिपालाख्य एवं सहदेव ऊचे। अश्वाधिभूम्रन्थिकसंज्ञयेह स्थाताहमित्थं नकुलोऽप्यजल्पत् ॥ ५॥ उवाच कृष्णाप्यथ मालिनीति सैरन्ध्यहं तत्र विराटपत्न्याः । ध्रुवं भविष्याम्यनवद्यकर्मकदम्बसंबद्धमिदं पदं हि ॥ ६ ॥ इत्थं मिथो मन्त्रकथेषु तेषु मुनीन्विनम्याभ्युदितेषु गन्तुम् । धौम्यो धियां धाम सुधामयीभिरुवाच वाग्भिनयवागुराभिः ॥ ७ ॥ भवद्भिरुद्भिन्ननयैर्विधेया ध्येया विधानैर्नरदेवसेवा । या मृत्यवे शैलशिरोधिरोहपद्येव सद्यः स्खलितकमाणाम् ॥ ८ ॥ अहो अहीनामपि खेलनेभ्यो दुःखानि दूरं नृपसेवनानि । एकोऽहिना दृष्ट उपैति मृत्युं क्षमापेन दष्टस्तु सगोत्रमित्रः ॥ ९॥ आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवलेहितोऽपि । इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥ १० ॥ सौरभ्यमेवाप्य सदाप्यहीनामानन्दनश्चन्दनपादपोऽभूत् । गुणेन केनापि न भूपतीनां सदा मुदे कोऽपि कथंचन स्यात्॥ ११ ॥ कुतोऽप्यनासादितजीवनस्य संदेहदोलागतजीवितस्य । तृष्णातिरेकोत्तरलस्य कूपझम्पेव सेवा जगतीपतीनाम् ॥ १२ ॥ १. तन्ति म पश्वादिबन्धुनरज्जुः. 'तन्त्रपाला' क-ख. २. 'प्यवोचत्' ख-ग. २८
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy