________________
२००
काव्यमाला।
प्रेषितो मुनिवरस्तपजेन मर्जनार्थमगमत्सह शिष्यैः । सानुजेन मरणाय चोद्यतं तं निरीक्ष्य मखजा हरिमीडे ॥ २६ ॥ रक्षिता सदसि दीर्घतमस्य पट्टकूलद विभो मम लज्जा । शापतो मुनिवरस्य तथाद्य पाण्डवानव जनार्दन भक्तान् ॥ २७ ॥ आगतः क्रतुभवां हरिराह देहि मेऽन्नमबले क्षुधिताय । नाथ पाहि मुनिशापभयान्नो भोजनावधिरलं मम सर्वम् ॥ २८ ॥ पात्रलग्नमपि शाक''''पत्रमत्तमादरवशेन निनाय । तृप्तिमाप वसुदेवसुतेन माययात्तवपुषा मुनिसङ्घः ॥ २९ ॥ शंकरांशमुनिमानय भीममित्युवाच मधुहा वन शीघ्रम् । अन्नमोघभयतोतितदात्ते भीमतोऽप्यघदृशो दिशि जग्मुः ॥ ३० ॥ आपदन्तमविबुध्य मुरारिः कृष्णया सह ततोऽचिं(?)नृपेण । खं पदं प्रति गतेऽर्जुनसख्यावाजगाम स तदा बृहदश्वः ॥ ३१ ॥ अर्चितं विधिवदासनसंस्थं पार्थिवोऽथ निजगाद यतीन्द्रम् । नास्ति कोऽपि मम तुल्यधरित्र्यां लुप्तराज्यवनवासविषादी ॥ ३२ ॥ भूपतिं स च विहस्य बभाषे नाहसीति नरदुःखकलायाः । द्यूतनष्टविभवो वनगोऽभूद्यो नृपो वनितया दमयन्त्या ॥ ३३ ॥ एकवस्त्रपरिधानदम्पती कानने सुषुपतुर्निशिथे तौ। खड्गरूपधर एव पपात क्रन्दनाय च कलिः परिधानम् ॥ ३४ ॥ निद्रितां स्त्रियमपास्य वनान्ते निर्गतोऽथ वसनार्धदधानः । वाससोऽर्धविगता वनिता सा तातगेहमगमद्बहुदुःखैः ॥ ३५ ॥ सोऽपि भूपतनयो वनवहेर्दह्यमानवपुषं पवनाशम् । उज्जहार फणिनाप्यथ दष्टः प्राप वर्णविकृति सहसैव ॥ ३६ ॥ प्राप्स्यसीति समये निजरूपं प्रोच्यमाननृपतिर्भुजगेन । सारथित्वमगमत्स सुबाहोः प्राप कालबहुतो दमयन्तीम् ॥ ३७॥ वाग्विलासविभवैर्गतशोकं संविधाय तनयं बृहदश्थे । आससाद विपिने शिशिरान्तः स्वं निकेतनगते मुनिमान्ये ॥ ३८ ॥]