________________
२सभापर्व-५सर्गः] बालभारतम् ।
१७७ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादानभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तत्कीयोकसि बालभारतमहाकाव्ये द्वितीयं सभापर्वैतत्कविगर्वपर्वलपविः प्राप्तं समाप्तेः पदम् ॥ १०५ ॥ अमुष्मिन्पञ्चभिः सर्गः सभापर्वण्यनुष्टुभाम् ।
जातानि व्यधिकाशीतिसंयुतानि शतानि षट् ॥ १०६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के
सभापर्वणि पाण्डवप्रवासो नाम पञ्चमः सर्गः ।
इति सभापर्व समाप्तम् ।