________________
१७८
काव्यमाला।
वनपर्व।
प्रथम सर्गः। रामादपि श्लाध्यगुणः श्रियेऽस्तु व्यासो मुनिः श्रीदयितावतारः। विनिर्मितो येन परार्थमेव भवार्णवे भारतसेतुबन्धः ॥ १ ॥ अथेन्द्रसेनादिभिरिन्द्रसेनाजयेऽप्युदारैः सहचारिदारैः । भक्तैश्चतुर्भिर्दशभिश्च पार्थो वीरै रथस्थैः पथि पर्यवारि ॥२॥ वैचित्रिणा नु प्रहितं विचित्रं रथादिसत्कारमवाप्य पार्थाः। संबोध्य संमान्य विव पौरास्तच्चित्तचौरा ययुरभ्युदीचीम् ॥ ३ ॥ योगेद्धया धर्मसुतोऽनुगामिद्विजवजाग्रेसरशौनकोक्त्या । शुचिं निशायाममुचत्रिमार्गातटे प्रयागस्य वटे स्थितोऽसौ ॥ ४ ॥ श्रीविप्रयुक्तेन च भूरिविप्रयुक्तेन च क्षोणिभुजा विभाते । अक्षय्यरूपा रसवत्यवापि धौम्योपदिष्टेन रवेः स्तवेन ॥ ५ ॥ सरस्वतीमुख्यसरस्वतीभिः श्लाघ्यं कुरुक्षेत्रमुपास्य भूपः । दुरोदरं दूरतरं प्रशंसन्स जग्मिवान्काम्यककाननाय ॥ ६ ॥ आस्थाय पन्थानमिह प्रथीयान्स्थितो निशीथे बकदैत्यबन्धु । किर्मीरवीरः समवर्तिसख्यवर्ती रणेऽकारि बकारिणाशु ॥ ॥ निन्द्योऽवनिं द्योतयिता कथं ते सूनुः कलेरंश इति त्यजामुम् । इत्यादिवादी विदुरो निरस्तः प्रज्ञादृशा प्राप वनेऽत्र पार्थान् ॥ ८ ॥ संमानितो बन्धुवियोगतप्तधीदृष्टिदिष्टेन स संजयेन । पुनः पुरेऽगाद्विदुरोऽन्धपुत्रकुमन्त्रबोधार्थमपीष्टपार्थः ॥ ९ ॥ धात्या विसैन्या रिपवोऽधुनेति कोक्तिभिः पार्थवधाय धावन् । अनीतिपङ्के किमु मज्जसीति व्यासेन रुद्धोऽथ सुयोधनो द्राक् ॥१०॥ पार्थाप्तिशिक्षासु कराहतोरं निरादरं संसदि कौरवेन्द्रम् । शशाप मैत्रेयमुनिर्मरुद्भूगदाक्षतोरुभवसंयतीति ॥ ११ ॥ पार्थे वनं द्वैतवनं गतेऽथ मित्राणि धात्रीपतयः समीयुः । हृदि प्रविष्टे प्रशमे समन्ताद्गणा गुणानामिव गौरवाय ॥ १२ ॥ १. 'वात्यारिसैन्या' क.