________________
कथं दूरं गता, स्वर्गे ऐरावणस्य दक्षिणकर्णे लुकिता । भूपतिः स्वरग्वा(?)दमोदत, शिरो. ऽधुनोत् । नित्यं गमनागमने[न] जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति। एकदा नृपेण पृष्टम्-'भवतां कः कलागुरुः।' अमरेण गदितम्-'अमरसिंहः कविराजः' इति।राजाह-'तर्हि प्रातरानेयः।' अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा खङ्गेन श्रमयन्नास्ते। राज्ञा पृष्टम्-'अयं कविराजः। कविराजेन व्याजहे-'ओम्' इति । राजाह-'तर्हि वद कालोचितं किंचित् ।' अमरसिंहः कवयति
'त्वत्कृपाणविनिर्माणशेषद्रव्येण वेधसा।
कृतः कृतान्तसर्पस्तु करोद्वर्तनवर्तिभिः ॥ १॥ अच्छाच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुण:
संचक्राम स यद्ददौ ग्रुपदवी प्रत्यर्थिषु मार्थिषु । तत्सङ्गान स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां
पृष्ठेषु स्वमपि प्रकाममुदितप्रोद्दामरोमोद्गमः ॥ २॥ कलयसि किमिह कृपाणं वीसल बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां न चैष लवयितुमसमर्थः ॥ ३ ॥ देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुज
स्तत्र क्रीडति कज्जलाकृतिरसिद्धा(()राद्विजिह्वः फणी । एष स्वाङ्गमनर्गलं रिपुतरस्कन्धेषु संवेष्टय
न्दीर्घ व्योमविशा(सा)रि निर्मलयशोनिर्मोकमुन्मुञ्चति ॥ ४ ॥' अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः । ग्रासो महान्प्रत्यष्ठापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणं करे धृत्वाऽमरसिंहोऽभिदधे-'इदं तृणं
श्रीवीसलब्रह्मपुरीद्वितीयावासवासिना ।
तेन नानाकनाम्नेदं तेने सारस्वतं सरः ॥ १७ ॥ मार्तण्डप्रतिमप्रतापवसतेः श्रीवीसलक्ष्मापते.
र्धाराध्वंसमहाप्रबन्धमधुरोन्मीलद्यशोवैभवः । एता(तां) सत्कविसंगतिगणपतिव्यासः प्रयासं विना
चक्रे निर्मलचित्रकाव्यरचनाभित्तिं प्रशस्ति नवाम् ॥ १८ ॥ समुल्लसन्मौलिरुहदिरेफः प्रपन्नकेदारपदारविन्दः । लिलेख चोदृङ्कितवान्कलादः प्रह्लादगोविन्दसुतः प्रशस्तिम् ॥ १९ ॥ जागर्ति पातूतनयस्य यस्य सावित्रिभर्तुमहिमा स कोऽपि ।
यस्यानुजो(?) पाल्हणनामधेयश्चकार केदारसुवर्णपूजाम् ॥ २० ॥ संवत् १३२८xxx श्रीअभयसिंहप्रतिपत्तौ प्रशस्तिरुद्धाटिता ॥' इति Indian Antiquary-Vol. XI. p. 206-7 पृष्ठयोश्च एच. एच. ध्रुव बी. ए. एल्. एल. बी. प्रकाशिताभ्यां प्रशस्तिभ्यां त्रयोदशख्रिस्तशतके समये नानाकवीसलदे. वयोः सत्त्वं प्रतीयते.